SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ROSAROOROSESAMROSOSORS भेदाः, दर्शनेऽपि दर्शनप्रभावनीयशास्त्रविषया एत एव द्रष्टव्या इति, अत्र च सन्दिष्टःसन्दिष्टस्योपसम्पद्यते इत्यादिचतुर्भङ्गिका, प्रथमः शुद्धः शेषास्त्वशुद्धा इति, 'द्विविधा च चारित्रार्थाये ति यदुक्तं तत्प्रदर्शनायाह-'वेयावच्चे खमणे काले आवकहाइ य चारित्रोपसम्पद् वैयावृत्यविषया क्षपणविषया च, इयं च कालतो यावत्कथिका च भवति, चशब्दादित्वरा च भवति, एतदुक्तं भवति-चारित्रार्थमाचार्याय कश्चिद्वैयावृत्त्यकरत्वं प्रतिपद्यते, सच कालत इत्वरो यावत्कथिकश्च भवतीति गाथासमासार्थः॥ साम्प्रतमयमेवार्थो विशेषतःप्रतिपाद्यते-तत्रापि सन्दिष्टेन सन्दिष्टस्योपसम्पहातव्येति मौलिकोऽयं गुण इति, एतत्प्रभवत्वादुपसम्पद इति, अतः अमुमेवार्थमभिधित्सुराह। संदिट्ठो संदिहस्स चेव संपजई उ एमाई । चउभंगो एत्थं पुण पढमो भंगो हवइ सुद्धो ॥७००॥ । __ व्याख्या-'सन्दिष्टो' गुरुणाऽभिहितः सन्दिष्टस्यैवाचार्यस्य यथा अमुकस्य सम्पद्यतां उपसम्पदं प्रयच्छत इत्यर्थः, एवमादिश्चतुर्भङ्गः, स चायं-तद्यथा-सन्दिष्टः सन्दिष्टस्योक्त एव, सन्दिष्टः असन्दिष्टस्यान्यस्याऽऽचार्यस्येति द्वितीयः, असन्दिष्टः सन्दिष्टस्य, न तावदिदानी गन्तव्यं गन्तव्यं त्वमुकस्येति तृतीयः, असन्दिष्टः असन्दिष्टस्य-न तावदिदानी गन्तव्यं न चामुकस्येति, अत्र पुनः प्रथमो भङ्गो भवति शुद्धः, पुनःशब्दस्य विशेषणार्थत्वात् द्वितीयपदेनाव्यवच्छित्ति|निमित्तमन्वेऽपि द्रष्टव्या इति गाथार्थः॥ साम्प्रतं वर्त्तनादिस्वरूपप्रतिपादनायाह अथिरस्स पुव्वगहियस्स वत्तणा जं इहं थिरीकरणं । तस्सेव पएसंतरणहस्सऽणुसंधणा घडणा ॥७०१॥ १ आचार्यस्व. d Jain Educatio inelibrary.org For Personal & Private Use Only n al
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy