________________
आवश्यक
॥२६७॥
पूर्वनिषिद्धेन सता भवतेदं न कार्यमिति, उत्पन्ने च प्रयोजने कत्तुकामेन 'होति पडिपुच्छत्ति प्रतिपृच्छा कर्त्तव्या भवति, ||हारिभद्रीपाठान्तरं वा-'पुबनिउत्तेण होइ पष्डिपुच्छा' पूर्वनियुक्तेन सता यथा भवतेदं कार्यमिति तत्कर्तुकामेन गुरोः प्रतिपृच्छा यवृत्तिः कर्तव्या भवति-अहं तत्करोमीति, तत्र हि कदाचिदसौ कार्यान्तरमादिशति समाप्तं वा तेन प्रयोजनमिति । द्वारं ७॥ विभागः१ तथा पूर्वगृहीतेनाशनादिना छन्दना शेषसाधुभ्यः कर्त्तव्या-इदं मयाऽशनाद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारेण ग्रहणं करोत्विति । द्वारं ८ । तथा निमन्त्रणा भवत्यगृहीतेनाशनादिना अहं भवतोऽशनाधानयामीति गाथार्थः द्वारं ९॥ इदानीमुपसम्पद्वारावयवार्थः प्रतिपाद्यते-सा चोपसम्पद् द्विधा भवति-गृहस्थोपसम्पत्साधूपसम्पच्च, तत्रास्तां तावद् गृहस्थोपसम्पत् , साधूपसम्पत्प्रतिपाद्यते-सा च त्रिविधा-ज्ञानादिभेदाद्, आह चउवसंपया य तिविहा णाणे तह दंसणे चरित्ते य । दसणणाणे तिविहा दुविहा य चरित्तअट्ठाए ॥६९८॥ व्याख्या-उपसम्पच्च त्रिविधा 'ज्ञाने' ज्ञानविषया तथा दर्शनविषया चारित्रविषया च, तत्र दर्शनज्ञानयोः सम्बन्धिनी विधा द्विविधा च चारित्राथोयति गाथार्थः॥ तत्र यदुक्तं-दर्शनज्ञानयोस्त्रिविधे'ति तत्प्रतिपादयन्नाह
वत्तणा संधणा चेव, गहणं सुत्तत्थतदुभए। वेयावचे खमणे, काले आवकहाइ य॥ ६९९ ॥ व्याख्या-वर्त्तना सन्धना चैव ग्रहणमित्येतत्रितयं 'सुत्तत्थतदुभए'त्ति सूत्रार्थोभयविषयमवगन्तव्यमिति, एतदर्थ |
॥२६७॥ मुपसम्पद्यते, तत्र वतना प्राग्गृहीतस्यैवास्थिरस्य सूत्रादेर्गुणनमिति, सन्धना तु तस्यैव प्रदेशान्तरविस्मृतस्य मेलनं घटना योजना इत्यर्थः, ग्रहणं पुनः तस्यैव तत्प्रथमतया आदानमिति, एतत्रितयं सूत्रार्थोभयविषयं द्रष्टव्यम्, एवं ज्ञाने नव
a
dan Educa
For Personal & Private Use Only
ainelibrary.org