________________
SANSAROKAR
व्याख्या-यो भवति निषिद्धात्मा-निषिद्धो मूलगुणोत्तरगुणातिचारेभ्यः आत्मा नेति समासः, नैषेधिकी 'तस्य' निषिद्धात्मनो 'भावतः' परमार्थतो भवति, न निषिद्धोऽनिषिद्धः उक्तेभ्य एवातिचारेभ्यः तस्य अनिषिद्धस्य-अनुपयुक्तस्यागच्छतः नैषेधिकी, किम् ?- केवलमत्तं हवइ सहो' केवलं शब्दमात्रमेव भवति, न भावत इति गाथार्थः॥ आह-यदि नामैवं तत एकार्थतायाः किमायातमिति', उच्यते, निषिद्धात्मनो नैषेधिकी भवतीत्युक्तं, सच- आवस्सयंमि जुत्तो नियमणिसिद्धोत्ति होइ नायव्वो।
अहवाऽवि णिसिद्धप्पा णियमा आवस्सए जुत्तो॥ १२२ ॥ दारं (भाष्यम् ) व्याख्या-'आवश्यके' मूलगुणोत्तरगुणानुष्ठानलक्षणे युक्तः 'नियमनिसिद्धोत्ति होइ नायवो' नियमेन निषिद्धो नियमनिषिद्ध 'इति' एवं भवति ज्ञातव्यः, आवश्यिक्यपि चावश्यकयुक्तस्यैवेत्यत एकार्थतेति । अथवेति प्रकारान्तरदर्शनार्थः, अपिशब्दस्य व्यवहितः सम्बन्धः, निषिद्धात्माऽपि नियमादावश्यके युक्तो यतः अतोऽप्येकार्थतेति, पाठान्तरं वा 'अहवावि निसिद्धप्पा सिद्धाणं अंतियं जाईत्ति, अस्थायमर्थः-एवं क्रियाया अभेदेनावश्यकीनषेधिक्योरेकार्थतोक्का, इह तुकार्याभेदेनोच्यते, अथवा निषिद्धात्माऽपि सिद्धानामन्तिक-सामीप्यं 'याति' गच्छति, अपिशब्दादावश्यकयुक्तोऽपि, अतः कार्याभेदादेकार्थतेति गाथार्थः॥ द्वारं ४-५॥ साम्प्रतमापृच्छादिद्वारचतुष्टयमेकगाथयैव प्रतिपादयन्चाहआपुच्छणा उ कजे पुत्वनिसिद्धेण होइ पडिपुच्छा । पुव्वगहिएण छंदण णिमंतणा होअगहिएणं ॥ ६९७ ॥ व्याख्या-आप्रच्छनमापृच्छा सा च कर्तुमभीष्टे कार्ये प्रवर्त्तमानेन गुरोः कार्या-अहमिदं करोमीति । द्वारं ६ तथा
25ARCANCERSALAAMSOMAL
Jain Education
For Personal & Private Use Only
nelibrary.org