________________
इत्थी विजाऽभिहिया पुरिसो मंतुत्ति तव्विसेसोयं । विना ससाहणा वा साहणरहिओ अ मंतुत्ति ॥९३१॥ । व्याख्या-स्त्री विद्याऽभिहिता पुरुषो मन्त्र इति तद्विशेषोऽयं, तत्र 'विदृ लाभे' 'विद सत्तायां' वा, अस्य विद्येति ६ भवति, 'मन्त्रि गुप्तभाषणे' अस्य मन्त्र इति भवति, एतदुक्तं भवति-यत्र मन्त्रेदेवता स्त्रीसा विद्या, अम्बाकुष्माण्ड्यादि, यत्र तु देवता पुरुषः स मन्त्रः, यथा विद्याराजः, हरिणेगमेषिरित्यादि, विद्या ससाधना वा साधनरहितश्च मन्त्र इति । साबरादिमन्त्रवदिति गाथार्थः ॥ ९३१ ॥ साम्प्रतं विद्यासिद्धं सनिदर्शनमुपदर्शयन्नाहविजाण चक्कवट्टी विजासिद्धो स जस्स वेगावि । सिझिज महाविजा विजासिद्धऽजखउडुव्व ॥ ९३२॥ ।
व्याख्या-'विद्यानां' सर्वासामधिपतिः-चक्रवर्ती 'विद्यासिद्ध' इति विद्यासु सिद्धो विद्यासिद्ध इति, यस्य वैकाऽपि सिद्धयेत् 'महाविद्या' महापुरुषदत्तादिरूपा स विद्यासिद्धः, सातिशयत्वात् , क इव?-आर्यखपुटवदिति गाथाक्षरार्थः || ॥ ९३२ ॥ भावार्थः कथानकादवसेयः, तच्चेदम्-विजासिद्धा अजखउडा आयरिया, तेसिं च बालो भाइणिज्जो, तेण तेर्सि पासओ विज्जा कन्नाहाडिया, विजासिद्धस्स य णमोकारेणावि किर विज्जाओ हवंति, सो विजाचक्कवट्टी तं भाइणेज्ज भरुकच्छे साहुसगासे ठविऊण गुडसत्थं णयरंगओ, तत्थ किर परिवायओ साहहिं वाए पराजिओ अद्धितीए कालगओ
विद्यासिद्धा आर्यखपुटा आचार्याः, तेषां च बालो भागिनेयः, तेन तेषां पार्थात् विद्या कर्णाहता, विद्यासिद्धस्य च नमस्कारेणापि किल विद्या भवन्ति, स विद्याचक्रवर्ती तं भागिनेयं भृगुकच्छे साधुसकाशे स्थापयित्वा गुडशस्त्रं नगरं गतः, तत्र किल परिवाजकः साधुभिर्वादे पराजितोऽनृत्याः कालगतः
Jain Educati
o
nal
For Personal & Private Use Only
M
ainelibrary.org