SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Jain Education 'जीवम्' आत्मानं 'मोचयति' अपनयति, कुतः ? - भवसहस्रेभ्यः, 'भावेन' उपयोगेन क्रियमाणः, इह च सहस्रशब्दो यद्यपि दशशतसङ्ख्यायां वर्तते तथाऽप्यन्त्रार्थादनन्तसङ्ख्यायामवगन्तव्यः, अनन्तभवमोचनान्मोक्षं प्रापयतीत्युक्तं भवति, आह-न सर्वस्यैव भावतोऽपि नमस्कारकरणे तद्भव एव मोक्षः, तत्कथमुच्यते - जीवं मोचयतीत्यादि, उच्यते, यद्यपि तद्भव एव मोक्षाय न भवति तथाऽपि भावनाविशेषाद्भवति पुनः 'बोधिलाभाय' बोधिलाभार्थ, बोधिलाभश्चाचिरादविकलो मोक्ष | हेतुरित्यतो न दोष इति गाथार्थः ॥ ९२३ ॥ तथा चाह अरिहंतनमुक्कारो धन्नाण भवक्खयं कुणंताणं । हिअयं अणुम्मुअंतो विसुत्तियावारओ होइ ॥ ९२४ ॥ व्याख्या - अर्हन्नमस्कार इति पूर्ववत्, धन्यानां भवक्षयं कुर्वताम्, तत्र धन्याः - ज्ञानदर्शनचारित्रधनाः साध्वादयः, तेषां भवक्षयं कुर्वतामिति, अत्र तद्भवजीवितं भवः तस्य क्षयो भवक्षयस्तं कुर्वताम् - आचरतां किम् ? - 'हृदयं' चेतः 'अनुन्मुञ्चन्' अपरित्यजन्, हृदयादनपगच्छन्नित्यर्थः, विस्रोतसिकावारको भवति, इहापध्यानं विस्रोतसिकोच्यते, तद्वारको भवति, धर्मध्यानैकालम्बनतां करोतीति गाथार्थः ॥ ९२४ ॥ अरहंतनमुक्कारो एवं खलु वण्णिओ महत्थुति । जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो ।। ९२५ ॥ व्याख्या - अर्हन्नमस्कार एवं खलु वर्णितो 'महार्थ' इति महानर्थो यस्य स महार्थः, अल्पाक्षरोऽपि द्वादशाङ्गार्थसङ्घाहित्वान्महार्थ इति, कथं पुनरेतदेवमित्याह-यो नमस्कारो 'मरणे' प्राणत्यागलक्षणे उपाये - समीपभूते 'अभिक्षणम्' अनवरतं क्रियते 'बहुशः' अनेकशः, ततश्च प्रधानापदि समनुस्मरणकरणेन ग्रहणात् महार्थः, प्रधानश्चायमिति । आह च For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy