________________
आवश्यकहारिभ• द्रीया
॥४०७ ॥
भाष्यकार : - " जलणाइभए सेसं मोतुंडप्पेगैरयणं महामोल्लं । जुहि वाऽइभए घेप्पइ अमोहंसत्थं जह तह ॥ १ ॥ मोतुंवि बारसंगं स एव मरणंमि कीरए जम्हा । अरहंतनमोक्कारो तम्हा सो बारसंगत्थो ॥ २ ॥ सबंपि बारसंगं परिणामविसुद्धिउमेत्तायं । तकारणभावाओ किह न तदत्थो नमोक्कारो ! ॥ ३ ॥ णहु तंमि देसकाले सक्को बारसविहो सुयक्खंधो। सबो अणुचिंते धंतंपि समत्थचित्तेणं ॥ ४ ॥ तप्पणईणं तम्हा अणुसरियबो सुहेण चित्तेणं । एसेव नमोकारो कयन्नुतं मन्नमाणेणं ॥ ५ ॥” इति गाथार्थः ॥ ९२५ ॥ उपसंहरन्नाह
अरिहंतन मुकारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं ॥ ९२६ ॥
व्याख्या - किं बहुना ?, इहार्हन्नमस्कारः, किम् ? - सर्वपापप्रणाशनः, तत्र पांशयतीति निपातनात् पापं पिबति वा हितमिति पापम्, औणादिकः पः प्रत्ययः, सर्वम् - अष्टप्रकारमपि कर्म - पापं जातिसामान्यापेक्षया, उक्तं च- 'पापं कर्मैव तत्त्वत' | इत्यादि, तत्प्रणाशयतीति सर्वपापप्रणाशनः, मङ्गलानां च 'सर्वेषां' नामादिलक्षणानां 'प्रथमं' इति प्रधानं प्रधानार्थकारित्वात्, अथवा पञ्चामूनि भावमङ्गलान्यर्हदादीनि तेषां प्रथमम् — आद्यमित्यर्थः, 'भवति मङ्गलमिति संपद्यते मङ्गलमिति गाथार्थः
१ ज्वलनादिभये मुक्त्वा अप्येकं रत्नं महामूल्यम् । युधि वाऽतिभये गृह्यतेऽमोघशस्त्रं यथा तथेह ॥ १ ॥ मुक्त्वाऽपि द्वादशाङ्गं स एव मरणे क्रियते यस्मात् । अर्हन्नमस्कारस्तस्मात्स द्वादशाङ्गार्थः ॥ २ ॥ सर्वमपि द्वादशाङ्गं परिणामविशुद्धिमानहेतुकम् । तत्कारणभावात् कथं न तदर्थो नमस्कारः १ ॥ ३ ॥ नैव तस्मिन् देशकाले शक्यो द्वादशविधः श्रुतस्कन्धः । सर्वोऽनुचिन्तयितुं बाढमपि समर्थचित्तेन ॥ ४ ॥ तव्प्रणतीनां ( सद्भावात् ) तस्मादनुसर्त्तव्यः शुभेन | चित्तेन । एष एव नमस्कारः कृतज्ञत्वं मन्यमानेन ॥ ५ ॥ ( गाथेयं गाथाचतुष्काद्भिन्नसंबन्धा तत्र ) * पारणं मुद्विते + ० मत्थं मुद्विते.
Jain Education International
For Personal & Private Use Only
नमस्कार० वि० १
॥४०७ ॥
ainelibrary.org