________________
आवश्यक हारिभद्रीया
॥४०६॥
REGRASSRUSSIO*
धारणे, ज्ञानावरणादि, ततश्चाष्टविधं कमैव 'अरिभूतं' शत्रुभूतं भवति 'सर्वजीवानां' सर्वसत्त्वानामनवबोधादिदुःखहेतु- नमस्कार. त्वादिति भावः, पश्चार्द्ध पूर्ववत् , एवंविधा अरिहन्तार इति गाथार्थः॥ ९२०॥ अथवा
वि०१ __ अरिहंति वंदणनमंसणाई अरिहंति पूअसक्कारं । सिद्धिगमणं च अरिहा अरहंता तेण वुचंति ॥९२१ ॥ __व्याख्या-'अर्ह पूजायाम्' अर्हन्तीति 'पचाद्यचू' कर्तरि अहोः, किमर्हन्ति ?-वन्दननमस्करणे, तत्र वन्दनं शिरसा नमस्करणं वाचा, तथाऽहन्ति पूजासत्कारं, तत्र वस्त्रमाल्यादिजन्या पूजा, अभ्युत्थानादिसम्भ्रमः सत्कारः, तथा 'सिद्धिगमनं चाहन्ति' सिद्ध्यन्ति-निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिः-लोकान्तक्षेत्रलक्षणा, वक्ष्यति च-ईह बोंदि | चइत्ता णं तत्थ गंतूण सिज्झई तद्गमनं च प्रत्यहाँ इति, 'अरहता तेण वुच्चंति' प्राकृतशैल्या अस्तेिनोच्यन्ते, अथवा अर्हन्तीत्यर्हन्त इति गाथार्थः ॥ ९२१॥ तथा-देवासुरमणुएसुं अरिहा पूआ सुरुत्तमा जम्हा । अरिणो हंता रयं हंता अरिहंता तेण वुच्चंति ॥ ९२२॥ __ व्याख्या-देवासुरमनुजेभ्यः पूजामहन्ति-प्रामुवन्ति तद्योग्यत्वात् , सुरोत्तमत्वादिति युक्तिः, इत्थमनेकधाऽन्वर्थम४ भिधाय पुनः सामान्यविशेषाभ्यामुपसंहरन्नाह-'अरिणो हंता' इत्यादि पूर्ववदेव, अरीणां हन्तारः यतः अरिहन्तारस्तेनो-18 है च्यन्ते, तथा रजसो हन्तारः यतो रजोहन्तारस्तेनोच्यन्ते इति, रजो बध्यमानकं कर्म भण्यत इति गाथार्थः ॥ ९२२॥ इदानीममोघताख्यापनार्थमपान्तरालिकं नमस्कारफलमुपदर्शयति
॥४०६॥ अरहंतनमुक्कारो जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥९२३ ॥ व्याख्या-अर्हतांनमस्कारःअर्हन्नमस्कार,इहार्हच्छब्देन बुद्धिस्थाहदाकारवती स्थापना गृह्यते,नमस्कारस्तु नमःशब्द एव, * इह तनुं त्यक्त्वा तत्र गत्वा सिध्यति.
For Personal & Private Use Only
Jain Education International
jainelibrary.org