________________
तेरिच्छिगा भया दोसा, आहारट्ठा तहेव य । अवच्चलेणसंरक्खणछाए ते वियाहिया ॥३॥ घट्टणा पवडणा दाचेव, थंभणा लेसणा तहा। आयसंवेयणीया उ, उवसग्गा चउबिहा ॥ ४ ॥” इत्याद्यलं प्रसङ्गेन, एतन्नामयन्तो नमोऽर्हा
इति व्याख्यातमयं गाथार्थः॥ साम्प्रतं प्राकृतशैल्याऽनेकधाऽर्हच्छब्दनिरुक्तसम्भवं निदर्शयन्नाह18 इंदियविसयकसाए परीसहे वेयणा उवस्सग्गे । एए अरिणो हंता अरिहंता तेण वुचंति ॥ ९१९ ॥
व्याख्या-इन्द्रियादयः पूर्ववत्, वेदना त्रिविधा-शारीरी मानसी उभयरूपा च, 'एए अरिणो हता' इत्यत्र प्राकृतशैल्या छान्दसत्वात् 'सुपां सुपी'त्यादिलक्षणतः एतेषामरीणां हन्तारः यतोऽरिहन्तारः 'तेनोच्यन्ते' तेनाभिधीयन्ते, अरीणां हन्तारोऽरिहन्तार इति निरुक्तिः स्यात्, एतदनन्तरगाथायामेत एवोक्ताः पुनरमीषामेवेहोपन्यासोऽयुक्त इति?, अत्रोच्यते, अनन्तरगाथायां नमस्कारार्हत्वे हेतुत्वेनोक्ताः, इह पुनरभिधाननिरुक्तिप्रतिपादनार्थमुपन्यास इति गाथार्थः॥ साम्प्रतं प्रकारान्तरतोऽरय आख्यायन्ते, ते चाष्टौ ज्ञानावरणादिसंज्ञाः सर्वसत्त्वानामेवेति, आह च| अट्टविहंपिय कम्मं अरिभूअं होइ सव्वजीवाणं । तं कम्ममरिं हंता अरिहंता तेण वुच्चति ॥ ९२०॥
व्याख्या-'अष्टविधमपि' अष्टप्रकारमपि, अपिशब्दादुत्तरप्रकृत्यपेक्षयाऽनेकप्रकारमपि, चशब्दो भिन्चक्रमः, स चाव
१ तैरश्चा भयाऐषादाहारार्थाय तथैव च । अपत्यलयनसंरक्षणार्थाय ते व्याख्याताः ॥३॥ घटना प्रपतनैव स्तम्भनं श्लेषणं तथा । आत्मसंवेदनीयास्तु उपसर्गाश्चतुर्विधाः ॥४॥
Jain Education International
For Personal & Private Use Only
A
anelibrary.org