________________
आवश्यकहारिभद्रीया
॥४०३॥
ROSHARRIS
द्वेषं मुनिव्रजेत् । न वारयेदुपेक्षेत, सर्वाहारप्रियत्ववित् ॥५॥ वासोऽशुभं न वा मेऽस्ति, नेच्छेत् तत्साध्वसाधु वा। नमस्कार लाभालाभविचित्रत्वं, जानन्नाम्येन विप्लुतः ॥६॥ गच्छंस्तिष्ठन्निषण्णो वा, नारतिप्रवणो भवेत् । धर्मारामरतो नित्य, वि०१ | स्वस्थचेता भवेन्मुनिः॥ ७॥ सङ्गपङ्कसुदुर्बाधाः, स्त्रियो मोक्षपथार्गलाः । चिन्तिता धर्मनाशाय, यतोऽतस्ता न चिन्तयेत् ॥८॥ ग्रामाद्यनियतस्थायी, सदा वाऽनियतालयः । विविधाभिग्रहैर्युक्तश्चर्यामेकोऽप्यधिश्रयेत् ॥९॥ श्मशानादिनिषद्यासु, ख्यादिकण्टकवर्जिते । उपसर्गाननिष्टेष्टानेकोऽभीरस्पृहः क्षमेत् ॥ १०॥ शुभाशुभासु शय्यासु, सुखदुःखे समुत्थिते । सहेत सङ्गं नेयाच्च, श्वस्त्याज्येति च भावयेत् ॥११॥ नाक्रुष्टो मुनिराक्रोशेत् , साम्याद् ज्ञानाद्यवर्जकः । अपे-18 क्षेतोपकारित्वं, न तु द्वेषं कदाचन ॥१२॥ हतः सहेतैव मुनिः, प्रतिहन्यान्न साम्यवित् । जीवानाशात् क्षमायोगाद्, गुणाप्तेः क्रोधदोषतः ॥ १३ ॥ परदत्तोपजीवित्वाद्, यतीनां नास्त्ययाचितम् । यतोऽतो याचनादुःखं, क्षाम्येन्नेच्छेदगारिताम् ॥ १४॥ परकीयं परार्थं च, लभ्येतान्नादि नैव वा । लब्धेन माद्येन्निन्देवा, स्वपरान्नाप्यलाभतः॥१५॥ नोद्विजेद् रोगसम्प्राप्तो, न चाभीप्सेच्चिकित्सितम् । विषहेत तथाऽदीनः, श्रामण्यमनुपालयेत् ॥ १६॥ अभूताल्पाणुचेलत्वे, कादाचित्कं तृणादिषु । तत्संस्पर्शोद्भवं दुःखं, सहेन्नेच्छेच्च तान् मृदून् ॥ १७ ॥ मलपङ्करजोदिग्धो, ग्रीष्मोष्णक्लेदनादपि । नोद्विजेत् स्नानमिच्छेद्वा, सहेतोद्वर्तयेन्न वा ॥ १८ ॥ उत्थानं पूजनं दानं, स्पृहयेन्नात्मपूजकः । मूर्छितो न भवेल्लब्धे, दीनोऽ- ॥४०३॥ सत्कारितो न च ॥ १९ ॥ अजानन् वस्तु जिज्ञासुन मुह्येत् कर्मदोषवित् । ज्ञानिनां ज्ञानमुद्वीक्ष्य, तथैवेत्यन्यथा न तु ॥२०॥ विरतस्तपसोपेतश्छद्मस्थोऽहं तथाऽपि च । धर्मादि साक्षान्नैवेक्षे, नैवं स्यात् क्रमकालवित् ॥ २१॥ जिनास्तदुक्तं
Jain Education International
For Personal & Private Use Only
WDainelibrary.org