SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ४ कारणे गच्छतः 'आवस्सिया होई' आवश्यिकी भवतीति गाथार्थः॥ आह-कारणेन गच्छतः किं सर्वस्यैवावश्यकी भवति उत नेति !, नेति, कस्य तर्हि ?, उच्यते,आवस्सिया उ आवस्सएहिं सव्वेहिं जुत्तजोगिस्स । मणवयणकायगुतिंदियस्स आवस्सिया होइ ॥ ६९४॥ | व्याख्या-आवश्यिकी तु 'आवश्यकैः' प्रतिक्रमणादिभिः सर्वैर्युक्तयोगिनो भवति, शेषकालमपि निरतिचारस्य क्रियास्थस्येति भावार्थः, तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि 'मण'इत्यादि पश्चार्द्ध मनोवाक्कायेन्द्रियैर्गुप्त इति समासः, तस्य, किम् ?-आवश्यिकी भवति, इन्द्रियशब्दस्य गाथाभङ्गभयाव्यवहितोपन्यासः, कायात्पृथगिन्द्रियग्रहणं प्राधान्यख्यापनार्थम् , अस्ति चायं न्यायः-'सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थ भेदेनोपन्यासो' यथा-ब्राह्मणा आयाता वशिष्टोऽप्यायात इति गाथार्थः ॥ उक्ताऽऽवश्यिकी, साम्प्रतं नैषेधिकी प्रतिपादयन्नाहसेजं ठाणं च जहिं चेएइ तहिं निसीहिया होइ । जम्हा तत्थ निसिद्धो तेणं तु निसीहिया होइ ॥ ६९५॥ व्याख्या-शेरतेऽस्यामिति शय्या-शयनीयस्थानंतां शय्यां 'स्थानं चेति स्थानमूर्ध्वस्थान', कायोत्सर्गः, यत्र 'चेतयते' 'चिती सज्ञाने' अनुभवरूपतया विजानाति वेदयतीत्यर्थः, अथवा 'चेतयते' इति करोति, शयनक्रियां च कुर्वता निश्चयतः शय्या क्रिया कृता भवति, ततश्च यत्र स्वपितीत्यर्थः, चशब्दो वीरासनाद्यनुक्तसमुच्चयार्थः, अथवा तुशब्दार्थे द्रष्टव्यः, स च विशेषणार्थः, कथम् ?, प्रतिक्रमणाद्य शेषकृतावश्यकः सन्ननुज्ञातो गुरुणा शय्यां स्थानं च यत्र चेत्यते तत्र' एवं-13 * कारणात् प्र०. + किमुच्यते प्र०. नमुक्तं प्र० शय्या प्र०. प्रतिक्रमणाद्यशेषैः कार्यैः समापितावश्यककृत्य इत्यर्थः. Jain Educat i onal For Personal & Private Use Only fom.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy