________________
आवश्यक
॥२६५॥
आवस्सियं च र्णितो जं च अहंतो णिसीहियं कुणइ । वंजणमेयं तु दुहा अत्थो पुण होइ सो चेव । ६९२ ॥ व्याख्या - आवश्यकीं च निर्गच्छन् यां च प्रविशन्नैषेधिकीं करोति, 'व्यञ्जनं' शब्दरूपं 'एतं तु दुहन्ति एतदेव शब्दरूपं द्विधा, अर्थः पुनर्भवत्यावश्यि कीनैषेधिक्योः 'स एव' एक एव यस्मादवश्यं कर्त्तव्ययोगक्रियाऽऽवश्यि की निषिद्धात्मनश्चातिचरेभ्यः क्रिया नैषेधिकीति, न ह्यसावप्यवश्यं कर्त्तव्यं व्यापारमुल्लङ्घय प्रवर्त्तते, आह-यद्येवं भेदोपन्यासः किमर्थम् ?, उच्यते, क्वचित् स्थितिगमनक्रियाभेदादभिधानभेदाच्चेति गाथार्थः ॥ आह- 'आवश्यिक च निर्गच्छन्नित्युक्तं, तत्र साधोः किमवस्थानं श्रेय उताटनमिति ?, उच्यते, अवस्थानमिति, कथम् ?, यत आह
एगग्गस्स पसंतस्स न होंति इरियाइया गुणा होंति । गंतव्वमवस्सं कारणंमि आवस्सिया होई ॥। ६९३ ॥ व्याख्या – एकमग्रम् - आलम्वनमस्येत्येकाग्रस्तस्य स चाप्रशस्तालम्बनोऽपि भवत्यत आह- 'प्रशान्तस्य' क्रोधरहितस्य तिष्ठतः, किम् ?, न भवन्ति ईर्यादयः, ईरणमीर्य्या - गमनमित्यर्थः, इहेय्र्याकार्य कर्म ईर्ष्याशब्देन गृह्यते, कारणे कार्योपचारादू, इ, ईर्ष्या आदौ येषामात्मसंयमविराधनादीनां दोषाणां ते ईर्यादयो न भवन्ति, तथा 'गुणाश्च' स्वाध्यायध्यानादयो भवन्ति, प्राप्तं तर्हि संयतस्यागमनमेव श्रेय इति तदपवादमाह-न चावस्थाने खलूक्तगुणसम्भवान्न गन्तव्यमेव, किन्तु 'गन्तधमवस्सं कारणंमि' गन्तव्यम् 'अवश्यं' नियोगतः 'कारणे' गुरुग्लानादिसम्बन्धिनि, यतस्तत्रागच्छतो दोषा इति, तथा च
* गम्ययपः कर्माधारे इति पञ्चमी तथा चातिचारानाश्रित्येत्यर्थः.
Jain Educatiational
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥२६५॥
jainelibrary.org