SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ एतदुक्तं भवति-गुरौ वाचनां प्रयच्छति सति सूत्रं गृह्णानेन तथाकारः कार्यः, तथा सामान्येनोपदेशे-चक्रवालसामाचारीप्रतिबद्धे गुरोरन्यस्य वा सम्बन्धिनि तथाकारः कार्यः, तथा 'सुत्तअत्थकहणाएं'त्ति सूत्रार्थकथनायां, व्याख्यान इत्यर्थः, किम् ?-तथाकारः कार्यः, तथाकार इति कोऽर्थ इति ?, आह-अवितथमेतत् यदा!यमिति, न केवलमुक्तेध्वेवार्थेषु तथाकारप्रवृत्तिः, तथा 'पडिसुणणाए' त्ति प्रतिपृच्छोत्तरकालमाचार्ये कथयति सति प्रतिश्रवणायां च तथाकारप्रवृत्तिरिति, चशब्दलोपोऽत्र द्रष्टव्य इति गाथार्थः॥ साम्प्रतं स्वस्थाने स्वस्थाने खल्विच्छाकारादिप्रयोक्तुः फलप्रतिपादनायाहजस्स य इच्छाकारो मिच्छाकारोय परिचिया दोऽवि । तइओय तहक्कारो न दुल्लभा सोग्गई तस्स ॥ ६९०॥ | व्याख्या-यस्य चेच्छाकारो मिथ्याकारश्च परिचितौ द्वावपि तृतीयश्च तथाकारो न दुर्लभा सुगतिस्तस्येति गाथा । | निगदसिद्धैव । द्वारं ३ ॥ साम्प्रतमावश्यकीनषेधिकीद्वारद्वयावयवार्थमभिधित्सुः पातनिकागाथामाह आवस्सियं च णितो जं च अइंतो निसीहियं कुणइ । एयं इच्छं नाउ गणिवर ! तुम्भंतिए णिउणं ॥ ६९१ ॥ व्याख्या-शिष्यः किलाह-'आवस्सियंति आवश्यिकी-पूर्वोक्का तामावश्यिकी च 'निन्तो निर्गच्छन् यां च 'अतितो' त्ति आगच्छन् , प्रविशन्नित्यर्थः, नैषेधिकी करोति, 'एतद्' आवश्यिकीनषेधिकीद्वयमपि स्वरूपादिभेदभिन्नं इच्छामि ज्ञातुं हे गणिवर युष्मदन्तिके 'निपुणं' सूक्ष्म ज्ञातुमिच्छामीति क्रियाविशेषणमिति गाथार्थः। एवं शिष्येणोके सत्याहाचार्यः HEACHEMORRCMOMORECACAECRE Jain Education International For Personal & Private Use Only L inelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy