SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥२६॥ कल मामि तत्, केनेत्याह-उपशमेन हेतुभूतेन, 'एषः' अनन्तरोक्तः प्राकृतशैल्या मिथ्यादुष्कृतपदस्याक्षरार्थ इति 'समासेन' हारिभद्रीसङ्केपेणेति गाथार्थः॥ आह-कथमक्षराणां प्रत्येकमुक्तार्थतेति, पदवाक्योरेवार्थदर्शनादिति, अत्रोच्यते, इह यथा वाक्यैक 18यवृत्तिः विभागः१ देशत्वात्पदस्यार्थोऽस्ति तथा पदैकदेशत्वाद्वार्थोऽप्यवसेय इति, अन्यथा पदस्याप्यर्थशून्यत्वप्रसङ्गः, प्रत्येकमक्षरेषु तदभावादिति, प्रयोगश्च-इह यद्यत्र प्रत्येकं नास्ति तत्समुदायेऽपि न भवति, प्रत्येकमभावात्, सिकतातैलवदिति, इष्यते च वर्णसमुदायात्मकस्य पदस्यार्थः, तस्मात्तदन्यथाऽनुपपत्तेर्वार्थोऽपि प्रतिपत्तव्य इत्यलं प्रसङ्गेनेति । द्वारम् २। साम्प्रतं तथाकारो यस्य दीयते तत्प्रतिपिपादयिषयाऽऽह कप्पाकप्पे परिणिट्टियस ठाणेसु पंचसु ठियस्स । संजमतवडगस्स उ अविकप्पेणं तहाकारो॥६८८॥ व्याख्या-कल्पो विधिराचार इति पर्यायाः, कल्पविपरीतस्त्वकल्पः, जिनस्थविरकल्पादिर्वा कल्पः, चरकादिदीक्षा पुनरकल्प इति, कल्पश्चाकल्पश्च कल्पाकल्पमित्येकवद्भावस्तस्मिन् कल्पाकल्पे, परि-समन्तात् निष्ठितः परिनिष्ठितो, ज्ञाननिष्ठां प्राप्त इत्यर्थः, तस्य, तथा तिष्ठन्त्येतेषु सत्सु शाश्वते स्थाने प्राणिन इति स्थानानि-महाव्रतान्यभिधीयन्ते, तेषु स्थानेषु पञ्चसु स्थितस्य, महाव्रतयुक्तस्येत्यर्थः, तथा संयमतपोभ्यामाब्या-सम्पन्न इत्यनेनोत्तरगुणयुक्ततामाह, तस्य किमित्याह'अविकल्पेन' निश्चयेन, किम्?-तथाकारः, कार्य इति क्रियाध्याहार इति गाथार्थः॥ इदानीं तथाकारविषयप्रतिपादनायाह ॥२६॥ वायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए।अवितहमेयंति तहा पडिसुणणाए तहक्कारो॥ ६८९॥ दारं॥ व्याख्या-वाचना-सूत्रप्रदानलक्षणा तस्याः प्रतिश्रवणं-प्रतिश्रवणा तस्यां वाचनाप्रतिश्रवणायां, तथाकारः कार्यः, Jain Education International For Personal & Private Use Only Mainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy