SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ भेदयुक्तेन 'प्रतिक्रान्तो' निवृत्तो यस्तस्माद्दुष्कृतकारणात् तस्यैव खलुशब्दोऽवधारणे, 'दुष्कृतं' प्रागुक्तं दुष्कृतफलदातृत्वमधिकृत्य 'मिथ्ये 'ति मिथ्या, भवतीति क्रियाध्याहारः अथवा व्यवहितयोगात्तस्यैव मिथ्यादुष्कृतं भवति नान्यस्येति गाथार्थः ॥ साम्प्रतं यस्य मिथ्यादुष्कृतं दत्तमपि न सम्यग् भवति तत्प्रतिपादनायाह जं दुक्कडंति मिच्छा तं वेव निसेवए पुणो पावं । पञ्चक्खमुसाबाई मायानियडीपसंगो य ॥ ६८५ ॥ व्याख्या – 'यत्' पापं किञ्चिदनुष्ठानं दुष्कृतमिति विज्ञाय 'मिच्छत्ति मिथ्यादुष्कृतं दत्तमित्यर्थः, यस्तदेव निषेवते पुनः पापं स हि प्रत्यक्षमृषावादी वर्त्तते, कथम् ? - दुष्कृतमेतदित्यभिधाय पुनरासेवनात् तथा मायानिकृतिप्रसङ्गश्च तस्य स हि दुष्टान्तरात्मा निश्चयतश्चेतसाऽनिवृत्त एव गुर्वादिरञ्जनार्थं मिथ्यादुष्कृतं प्रयच्छति, कुतः ?, पुनरासेवनात्, तत्र मायैव निकृतिर्मायानिकृतिस्तस्याः प्रसङ्ग इति गाथार्थः ॥ कः पुनरस्य मिथ्यादुष्कृतपदस्यार्थ इत्याशङ्कयाह— | मित्ति मिउमद्दवत्ते छत्ति य दोसाण छायणे होइ । मित्तिय मेराऍ ठिओ दुत्ति दुर्गुछामि अप्पाणं ॥ ६८६ ॥ व्याख्या—'मी' त्येवं वर्णः मृदुमार्दवत्वे वर्त्तते, तत्र मृदुत्वं-कायनम्रता मार्दवत्वं - भावनम्रतेति, 'छे'ति च दोषस्य - असंयमयोगलक्षणस्य छादने - स्थगने भवति, 'मी'ति चायं वर्णः मर्यादायां- चारित्ररूपायां स्थितोऽहमित्यस्यार्थस्याभिधायकः 'दु' इत्ययं वर्णः जुगुप्सामि - निन्दामि दुष्कृतकर्मकारिणमात्मानमित्यस्मिन्नर्थे वर्त्तत इति गाथार्थः ॥ कति कडं में पावं डत्ति य डेवेमि तं उवसमेणं । एसो मिच्छाउक्कडपयक्खरत्थो समासेणं ॥ ६८७ ॥ दारं ॥ व्याख्या—‘क’ इत्ययं वर्ष्णः कृतं मया पापमित्येवमभ्युपगमार्थे वर्त्तते, 'ड' इति च 'डेवेमि तंति लङ्घयामि-अतिक्र Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy