________________
आवश्यक
हारिभद्रीयवृत्तिः विभागा१
॥२६३॥
संजमजोए अन्भुट्टियस्स जंकिंचि वितहमायरियं । मिच्छा एतंति वियाणिऊण मिच्छत्ति कायव्वं ॥६८२॥
व्याख्या-संयमयोगः-समितिगुप्तिरूपस्तस्मिन्विषयभूतेऽभ्युत्थितस्य सतः यत्किञ्चिद्वितथम्-अन्यथा आचरितम्आसेवितं, भूतमिति वाक्यशेषः, 'मिथ्या एतदिति' विपरीतमेतदित्येवं विज्ञाय किम् ?-'मिच्छत्ति काय मिथ्यादुष्कृतं | दातव्यमित्यर्थः । संयमयोगविषयायां च प्रवृत्तौ वितथासेवने मिथ्यादुष्कृतं दोषापनयनायालं, न तूपेत्यकरणगोचरायां नाप्यसकृत्करणगोचरायामिति गाथाहृदयार्थः॥ तथा चोत्सर्गमेव प्रतिपादयन्नाहजइ य पडिक्कमियव्वं अवस्स काऊण पावयं कम्मं । तं चेव न कायव्वं तो होइ पए पडिक्कतो॥ ६८३॥ ।
व्याख्या-यदि च 'प्रतिक्रान्तव्यं' निवर्तितव्यं, मिथ्यादुष्कृतं दातव्यमित्यर्थः, 'अवश्य' नियमेन कृत्वा पापकं कर्म, ततश्च 'तदेव' पापकं कर्म न कर्त्तव्यं, ततो भवति 'पदे' उत्सर्गपदविषये प्रतिक्रान्त इति । अथवा-'पदे'त्ति प्रथमं प्रतिक्रान्त इति गाथार्थः॥ साम्प्रतं यथाभूतस्येदं मिथ्यादुष्कृतं सुदत्तं भवति तथाभूतमभिधित्सुराह
जंदुक्कडंति मिच्छा तं भुज्जो कारणं अपूरतो। तिविहेण पडिकतो तस्स खलु दुकर्ड मिच्छा॥ ६८४॥ | _व्याख्या-'यदि'त्यनिर्दिष्टस्य निर्देशः, करणमिति योगः, ततश्च 'यत्कारणं' यद् वस्तु दुष्टु कृतं दुष्कृतम् 'इति' एवं | विज्ञाय 'मिच्छत्ति सूचनात्सूत्रमितिकृत्वा मिथ्यादुष्कृतं दत्तं, तद् 'भूयः' पुनः प्रागुक्तं दुष्कृतकारणम् 'अपूरयन्। अकुर्वन्ननाचरन्नित्यर्थः, यो वर्त्तत इति वाक्यशेषः, 'तस्स खलु दुक्कडं मिच्छत्ति सम्बद्ध एव ग्रन्थः, तत्र स्वयं कायेनाप्यकुर्वन्नपूरयन्नभिधीयत एवेत्यत आह-'तिविहेण पडिक्कतो' त्ति त्रिविधेन मनोवाकायलक्षणेन योगेन कृतकारितानुमति
॥२६३॥
Jain Education International
For Personal & Private Use Only
M
anelibrary.org