SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Jain Education अहं अप्पणा वैयावच्चं करेमि तो अचिंतणेण सुत्तत्था नासंति, तेहि य नद्वेहिं गच्छसारवणाऽभावेण गणस्सादेसा दिअप्पडितप्पणेण बहुयरं मे नासेइति । आह च-सुत्तत्थेसु अचिन्तण आएसे बुड्ढसेहगगिलाणे । बाले खमए वाई इड्डीमाइ अणिड्डी य ॥ १ ॥ एहिं कारणेहिं तुंबभूओ उ होति आयरिओ । वेयावच्चं ण करे काय तस्स सेसेहिं ॥ २ ॥ जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेज्जा । न हु तुंबंमि विणट्ठे अरया साहारया होंति ॥ ३ ॥ बाले सप्पभए तहा इड्डिमंतंमि | आगए पाणगादिगए आयरिए लहुत्तं, एवं वादिम्मिवि, अणिस्सरपवइयगा य एएत्ति जणापवादो, सेसं कंठं । आह- इच्छा| कारेणाहं तव प्रथमालिका मानयामीत्यभिधाय यदा लब्ध्यभावान्न सम्पादयति तदा निर्जरालाभविकलस्तस्येच्छाकारः, इत्यतः |किं तेनेत्याशङ्कयाह संजमजोए अयस्स सद्धाऍ काउकामस्स । लाभो चैव तवस्सिस्स होइ अद्दीणमणसस्स ॥ ६८१ ॥ व्याख्या–‘संयमयोगे’ संयमव्यापारे अभ्युत्थितस्य तथा 'श्रद्धया' मनःप्रसादेन इहलोक परलोकाशंसां विहाय कर्त्तुकामस्य, किम् ? - 'लाभो चेव तवसिस्स'त्ति प्रकरणान्निर्जराया लाभ एव तपस्विनो भवति अलब्ध्यादौ, अदीनं मनोऽस्येति अदीनमनास्तस्यादीनमनस इति गाथार्थः ॥ द्वारं १ । इदानीं मिथ्याकारविषयप्रतिपादनायाह १ यद्यहमात्मना वैयावृत्यं करोमि तदाऽचिन्तनेन सूत्रार्थों नश्यतः, तयोश्च नष्टयोर्गच्छसारणाऽभावेन गणस्य . आदेशादेरप्रतितर्पणेन बहुतरं मे नश्यतीति । सूत्रार्थयोरचिन्तनमादेशे वृद्धे शैक्षके ग्लाने । बाले क्षपके वादी ऋद्धिमदादि अवृद्धिश्च ॥ १ ॥ एतैः कारणैस्तुम्बभूतस्तु भवत्याचार्यः । वैयावृत्यं न कुर्यात् कर्त्तव्यं तस्य शेषैः ॥ २ ॥ यस्य कुलमायत्तं तं पुरुषमादरेण रक्षेत् । नैव तुम्बे विनष्टे अरकाः साधारा भवन्ति ॥ ३ ॥ बाले सर्पभये तथा ऋद्धिमत्यागते पानकाद्यर्थं गते आचार्ये लघुत्वम् एवं वादिन्यपि, अनीश्वरप्रब्रजिताश्चैत इति जनापवादः, शेषं कण्ठ्यम् । For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy