________________
नमस्कार
आवश्यक- हारिभद्रीया
वि०
॥३०॥
त्रस्य त्वप्रीतिरूपत्वात् क्रोध एव परगुणद्वेषः, मानादयस्तु भाज्याः, कथं ?, यदा मानः स्वाहङ्कारे प्रयुज्यते तदाऽऽत्मनि बहुमानप्रीतियोगाद् रागः, यदा तु स एव परगुणद्वेषे प्रयुज्यते तदाऽप्रीतिरूपत्वाद् द्वेषः, एवं मायालोभावप्यात्मनि मूपिणाद् रागः, तावेव परोपघातनिमित्तयोगादप्रीतिरूपत्वाद् द्वेषः, शब्दादीनां तु लोभ एव मानमाये स्वगुणोपकारमूच्छात्मकत्वात् प्रीत्यन्तर्गतत्वाल्लोभस्वरूपवदतस्त्रितयमपि रागः, स्वगुणोपकारांशरहितास्तु मानांद्यंशाः क्रोधश्च परोपघातात्मकत्वात् द्वेष इत्यलं प्रसङ्गेन, विशेषभावना विशेषावश्यकादवसेयेति ॥द्वारम्॥अथ कषायद्वारं, शब्दार्थः प्राग्वत् , तेषामष्टधा निक्षेपः, नामस्थापनाद्रव्यसमुत्पत्तिप्रत्ययादेशरसभावलक्षणः, आह च-"णामं ठवणा दविए उप्पत्ती पच्चए य आएसे । रसभावकसायाणं णएहिँ छहिँ मग्गणा तेसिं ॥१॥” तत्र नामस्थापने क्षुण्णे, द्रव्यकषायो व्यतिरिक्तः कर्मद्रव्यकषायो नोकर्मद्रव्यकषायश्च, कर्मद्रव्यकषायो योग्यादिभेदाः कषायपुद्गलाः, नोकर्मद्रव्यकषायस्तु सर्जकषायादिः, उत्पत्तिकषायो यस्माद् द्रव्यादे ह्यात् कषायप्रभवस्तदेव कषायनिमित्तत्वाद् उत्पत्तिकषाय इति, उक्तं च-"किं एत्तो कठ्ठयरं जं मूढो खाणुगंमि अप्फिडिओ । खाणुस्स तस्स रूसइ ण अप्पणो दुप्पओगस्स ॥१॥' प्रत्ययकषायः खल्वान्तरकारणविशेषः तत्पुद्गललक्षणः, आदेशकषायः कैतवकृतभृकुटिभङ्गुराकारः, तस्य हि कषायमन्तरेणापि तथादेशदर्शनात्, रसकषायो हरीतक्यादीनां रसः, भावकषायो द्विविधः-आगमतस्तदुपयुक्तो नोआगमतस्तदुदय एव,
नामस्थापनाद्रव्ये उत्पत्तौ प्रत्यय आदेशे च । रसभावकषायाणां नयैः षड्भिर्मार्गणा तेषाम् ॥१॥२ किमेतस्मात्कृष्टतरं यन्मूढः स्थाणावास्फालितः। स्थाणवे तस्मै रुष्यति नात्मनो दुष्प्रयोगाय ॥१॥
॥३९॥
Jain Education initional
For Personal & Private Use Only
ainelibrary org