SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ णिरुत्तगाहा-रजति असुभकलिमलकुणिमाणिडेसु पाणिणो जेणं । रागोत्ति तेण भण्णइ जं रजइ तत्थ रागत्थो ॥१॥ एषोऽप्रशस्तः, प्रशस्तस्त्वहंदादिविषयः, यथोक्तं-"अरहतेसु य रागो रागो साहसु बंभयारीसु । एस पसत्थो रागो अज सरागाण साहणं ॥१॥" एवंविधं रागं नामयन्तः-अपनयन्तः, क्रियाकालनिष्ठाकालयोरभेदादपनीत एव गृह्यते, आहप्रशस्तनामनमयुक्तं, न, तस्यापि बन्धात्मकत्वात्, आह-'एस पसत्थो' इत्यादि कथं, सरागसंयतानां कूमखननोदाहरणात् प्राशस्त्यमित्यलं प्रसङ्गेन । इदानीं दोषो द्वेषो वा, 'दुष वैकृत्ये दुष्यतेऽनेन अस्मिन्नस्माइषणं वा दोषः, 'द्विष अप्रीतौ' वा द्विष्यतेऽनेनेत्यादिना द्वेषः, असावपि नामादिश्चतुर्विधो न्यक्षेण रागवदवसेयः, तथाऽपि दिगमात्रतो निर्दिश्यते-नोआगमतो द्रव्यद्वेषः ज्ञशरीरेतरव्यतिरिक्तः कर्मद्रव्यद्वेषो नोकर्मद्रव्यद्वेषश्च, कर्मद्रव्यद्वेषः योग्यादिभेदाश्चतुविधा एव पुद्गलाः, नोकर्मद्रव्यदोषो दुष्टव्रणादिः, भावद्वेषस्तु द्वेषकर्मविपाकः, स च प्रशस्तेतरभेदः, प्रशस्तोऽज्ञानादिगोचरः, तथा ह्यज्ञानमविरतिमित्यादि द्वेष्टि, अप्रशस्तस्तु सम्यक्त्वादिगोचरः, तत्राप्रशस्ते उदाहरणं-णंदो नाम नाविओ गंगाए लोगं उत्तारेइ, तत्थ य धम्मरूई णाम अणगारो तीए नावाए उत्तिण्णो, जणो मोल्लं दाऊण गओ, साहू रुद्धो, फिडिया भिक्खावेला, तहावि न विसजेइ, वालुयाए उण्हाए तिसाइओ य अमुंचंतो रुटो, सो य दिट्ठीविसलद्धिओ, निरुक्तगाथा-'रज्यन्ति अशुभकलिमलकुणिमानिष्टेषु प्राणिनो येन । राग इति तेन भण्यते यद्रज्यति तत्र रागस्थः ॥१॥२ अर्हत्सु च रागो रागः साधुषु ब्रह्मचारिषु । एष प्रशस्तो रागोऽद्य सरागाणां साधूनाम् ॥ १॥३ नन्दो नाम नाविको गङ्गायां लोकानुत्तारयति, तत्र च धर्मरुचिर्नाम अनगारस्तया नावो|त्तीर्णः, जनो मूल्यं दत्वा गतः, साधू रुद्धः, स्फिटिता भिक्षावेला, तथाऽपि न विसर्जयति, वालुकायामुष्णायां तृषार्दितश्चामुच्यमानो रुष्टः, स च दृष्टि| विषलब्धिमान्, dain Educati on For Personal & Private Use Only ww.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy