________________
आवश्यकहारिभद्रीया
॥३८७॥
जीवनिकाया गावो जं ते पालंति ते महागोवा । मरणाइभया उ जिणा निव्वाणवणं च पार्वति ॥ ९९६ ॥ तो उवगारित्तणओ नमोऽरिहा भविअजीवलोगस्स । सव्वस्सेह जिनिंदा लोगुत्तमभावओ तह य ॥ ९९७॥ व्याख्या—गाथात्रयं निगदसिद्धमेव ॥ द्वारम् ३ ॥ एवं तावदुक्तेन प्रकारेण नमोऽर्हत्वहेतवे गुणाः प्रतिपादिताः, साम्प्रतं प्रकारान्तरेण नमोऽर्हत्व हेतुगुणाभिधित्सयाऽऽह—
रागद्दोसकसाए, इंदिआणि अ पंचवि । परीसहे उबस्सग्गे, नामयंता नमोऽरिहा । ९९८ ॥ व्याख्या – रागद्वेषकषायेन्द्रियाणि च पञ्चापि परीषहानुपसर्गान्नामयन्तो नमोऽर्हा इति । तत्र 'रञ्ज रागे' रज्यते अनेन अस्मिन् वा रञ्जनं वा रागः, स च नामादिश्चतुर्विधः, तत्र नामस्थापने सुगमे, द्रव्यरागो द्वेधा- आगमतो नोआगमतश्च, आगमतो रागपदार्थज्ञस्तत्रानुपयुक्तः, नोआगमतो ज्ञशरीर भव्यशरीरतद्व्यतिरिक्तभेदस्त्रिविधः, व्यतिरिक्तोऽपि कर्मद्रव्यरागो नोकर्मद्रव्यरागश्च कर्मद्रव्यरागश्चतुर्विधः - रागवेदनीय पुद्गला योग्याः १ बध्यमानका २ बद्धाः ३ उदीरणावलिकाप्राप्ताश्च ४, बन्धपरिणामाभिमुखा योग्याः, बन्धपरिणामप्राप्ता वध्यमानकाः, निर्वृत्तबन्धपरिणामाः सत्कर्मतया स्थिता | जीवेनाऽऽत्मसात्कृता बद्धाः, उदीरणाकरणेनाऽऽकृष्योदीरणावलिकामानीताश्चरमा इति, नोकर्मद्रव्यरागस्तु कर्मरागैक| देशस्तदन्यो वा, तदन्यो द्विविधः - प्रायोगिको वैश्रसिकश्च प्रायोगिको कुसुम्भरागादिः, वैश्रसिकः सन्ध्याभ्ररागादिः, भावरागोऽप्यागमेतरभेदाद् द्विधैव, आगमतो रागपदार्थज्ञ उपयुक्तः, नोआगमतो रागवेदनीय कर्मोदयप्रभवः परिणामविशेषः, स च द्वेधा-प्रशस्तोऽप्रशस्तश्च, अप्रशस्तस्त्रिविधः - दृष्टिरागो विषयरागः स्नेहरागश्च तत्र त्रयाणां त्रिषष्ट्यधिकानां
Jain Education International
For Personal & Private Use Only
LA!
नमस्कार. वि० १
॥३८७ ॥
jainelibrary.org