________________
SHOSPLASH LOGOROSA PARA
इयरीए वि दोनिवि पुरथिमतुंगारो दाहिणतुंगारो य, दाहिणवीयावो अवरवीयावो य, अवरगजभो उत्तरगजभोय, एए द सोलस वाया । तत्थ जहा जलिहिंमि कालियावायरहिए गजहाणुकूलवाए निउणनिजामगसहिया निच्छिडुपोता जहिठियं पट्टणं पार्वति, एवं चमिच्छत्तकालियावायविरहिए सम्मत्तगजभपवाए। एगसमएण पत्ता सिद्धिवसहिपट्टणं पोया ॥९१३ ॥ व्याख्या-मिथ्यात्वमेव कालिकावातः तेन विरहिते भवाम्भोधौ तथा सम्यक्त्वगर्जभप्रवाते, कालिकावातो ह्यसाध्यः गर्जभस्त्वनुकूलः, एकसमयेन प्राप्ताः सिद्धिवसतिपत्तनं 'पोताः' जीवबोहित्थाः, तन्निर्यामकोपकारादिति भावना ॥ ततश्च यथा सांयात्रिकसार्थः प्रसिद्धं निर्यामकं चिरगतमपि यात्र सिद्ध्यर्थं पूजयति, एवं ग्रन्थकारोऽपि सिद्धिपत्तनं प्रति प्रस्थितोऽभीष्टयात्रासिद्धये निर्यामकरत्नेभ्यस्तीर्थकृयः स्तवचिकीर्षयेदमाहनिजामगरयणाणं अमूढनाणमइकण्णधाराणं । वंदामि विणयपणओ तिविहेण तिदंडविरयाणं ॥ ९१४ ॥
व्याख्या-निर्यामकरत्नेभ्यः' अर्हद्भयः 'अमूढज्ञाना' यथावस्थितज्ञाना मननं मतिः-संविदेव सैव कर्णधारो येषां ते तथाविधास्तेभ्यो वन्दामि विनयप्रणतस्त्रिविधेन त्रिदण्डविरतेभ्य इति गाथार्थ ॥ ९१४ ॥द्वारं २॥ साम्प्रतं तृतीयद्वारव्याचिख्यासयाऽऽहपालंति जहा गावो गोवा अहिसावयाइदुग्गेहिं । पउरतणपाणिआणि अवणाणि पावंति तह चेव ॥ ९१५॥
१ इतरस्यामपि द्वावेव-पूर्वतुङ्गारो दक्षिणतुङ्गारश्च, दक्षिणबीजापोऽपरबीजापश्च, अपरगर्जभ उत्तरगर्जभश्च, एते षोडश वाताः । तत्र यथा जलधौ कालिकावातरहिते गर्जभानुकूलवाते निपुणनिर्यामकसहिता निश्छिद्रपोता यथेप्सितं पत्तनं प्राप्नुवन्ति ।
Jain Educati
o
nal
For Personal & Private Use Only
jainelibrary.org