________________
आवश्यकहारिभ
नमस्कार वि०१
द्रीया
माह, केषाञ्चित् सुखदुःखरहिता एव ते तत्र तिष्ठन्तीति दर्शनम् , अत आह-निर्वाणसुखं च तेऽनुप्राप्ता' निरतिशयसुखं प्राप्ता इत्यर्थः, ते च केषाञ्चिद्दर्शनपरिभवादिनेहाऽऽगच्छन्तीति दर्शनं, तन्निवृत्त्यर्थमाह-'शाश्वतं नित्यम् 'अव्याबाधं व्याबाधारहितं प्राप्ताः 'अजरामरं स्थानं जरामरणरहितं स्थानमिति गाथार्थः॥९११॥ द्वारं १॥ साम्प्रतं द्वितीयद्वारव्याचिख्यासयाऽऽहपावंति जहा पारं संमं निजामया समुदस्स । भवजलहिस्स जिणिंदा तहेव जम्हा अओ अरिहा ॥ ९१२॥ | व्याख्या-'प्रापयन्ति' नयन्ति 'यथा' येन प्रकारेण 'पारं' पर्यन्तं 'सम्यक्' शोभनेन विधिना 'निर्यामका प्रतीताः, कस्य !-समुद्रस्य, 'भवजलधेः' भवसमुद्रस्य जिनेन्द्रास्तथैव, पारं प्रापयन्तीति वर्तते, यस्मादेवमतस्तेऽर्हाः, नमस्कारस्येति गम्यते, अयं संक्षेपार्थः ॥ ९१२ ॥ भावत्थो पुण एत्थ निजामया दुविहा, तंजहा-दवनिजामया भावनिजामया य, दबनिजामए उदाहरणं तहेव घोसणगं विभासा । एत्थ अट्ठवाया वण्णेयवा, तंजहा-पाईणं वाए पडीणं वाए ओईणं वाए दाहिणं वाए, जो उत्तरपुरस्थिमेण सो सत्तासुओ, दाहिणपुवेणं तुंगारो, अवरदाहिणेणं बीआओ, अवरुत्तरेण गज्जभो, एवेते अठ्ठ वाया, अन्नेवि दिसासुं अठ्ठ चेव, तत्थ उत्तरपुवेणं दोन्नि, तंजहा-उत्तरसत्तासुओ पुरथिमसत्तासुओ य
भावार्थः पुनरत्र निर्यामका द्विविधाः, तद्यथा-द्रव्यनिर्यामका भावनिर्यामकाच, द्रव्यनिर्यामके उदाहरणं तथैव घोषणं विभाषा । अत्राष्टौ वाता वर्ण | यितव्याः, तद्यथा-प्राचीनवातः प्रतीचीनवातः उदीचीनवातो दाक्षिणात्यवातः, य उत्तरपौरस्त्यः स सत्त्वासुकः दक्षिणपूर्वस्यां तुङ्गारः, अपरदक्षिणस्यां बीजापः अपरोत्तरस्यां गर्जभः, एवमेतेऽष्टवाताः, अन्येऽपि दिक्ष्वष्टैच, तत्रोत्तरपूर्वस्यां द्वौ, तद्यथा-उत्तरसत्त्वासुकः पूर्वसत्त्वासुकश्च, * विभावो. विजाओ
॥३८६॥
dal Educati
o nal
For Personal & Private Use Only
Walnelibrary.org