________________
आवश्यकहारिभ•
द्रीया
॥३८३ ॥
रायातं च वस्तुद्वारं विस्तरतो व्याख्यायत इति, तत्रानन्तरोक्तं गाथाशकलं व्याख्यातमेव, नवरं तत्र यदुक्तं 'तेषां वस्तुत्वेऽयं हेतु' रिति, स खल्विदानीं हेतुरुच्यते, तत्रेयं गाथा -
मग्गे १ अविष्पणासो २ आयारे ३ विषयया ४ सहायत्तं ५ | पंचविहनमुक्कारं करेमि एएहिँ हे ऊहिं ॥ ९०३ ॥
व्याख्या - मार्गः अविप्रणाशः आचारः विनयता सहायत्वम् अर्हदादीनां नमस्कारार्हत्वे एते हेतवः, यदाह - पञ्चविधनमस्कारं करोमि एभिर्हेतुभिरिति गाथासमासार्थः ॥ इयमत्र भावना - अर्हतां नमस्कारार्हत्वे मार्गः - सम्यग्दर्शनादिलक्षणो हेतुः यस्मादसौ तैः प्रदर्शितस्तस्माच्च मुक्तिः, ततश्च पारम्पर्येण मुक्तिहेतुत्वात् पूज्यास्त इति । सिद्धानां तु नमस्काराहत्वेऽविप्रणाशः, शाश्वतत्वं हेतु:, तथाहि तदविप्रणाशमवगम्य प्राणिनः संसारवैमुख्येन मोक्षाय घटन्ते । आचार्याणां तु नमस्कारार्हत्वे आचार एव हेतु:, तथाहि तानाचारवत आचाराख्यापकांश्च प्राप्य प्राणिन आचारपरिज्ञानानुष्ठानाय भवन्ति । उपाध्यायानां तु नमस्कारार्हत्वे विनयो हेतुः, यतस्तान् स्वयं विनीतान् प्राप्य कर्मविनयन समर्थविनयवन्तो ( प्र ) भवन्ति देहिन इति । साधूनां तु नमस्कारार्हत्व सहायत्वं हेतुः, यतस्ते सिद्धिवधूसङ्गमैकनिष्ठानां तदवाप्तिक्रियासाहाय्य - मनुतिष्ठन्तीति गाथार्थः ॥ ९०३ ॥ एवं तावत्समासेनार्हदादीनां नमस्कारार्हत्वद्वारेण मार्गप्रणयनादयो गुणा उक्ताः साम्प्रतं प्रपञ्चेनार्हतां गुणानुपदर्शयन्नाह -
अडवीह देखिअन्तं १ तहेव निज्जामया समुद्दमि २ । छक्कायर क्खणडा महगोवा तेण वुञ्चति ३ ॥ ९०४ ॥
Jain Educatio tional
For Personal & Private Use Only
नमस्कार०
वि० १
1136311
jainelibrary.org