SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आहोस्विन्नमस्कार एव जीवः ? इत्येवं परस्परावधारणम् आरोपणा, तथा जीव एव नमस्कार इत्युत्तरपदावधारणम् १, अजीवाद्व्यवच्छिद्य जीव एव नमस्कारोऽवधार्यते, जीवस्त्वनवधारितः, नमस्कारो वा स्यादनमस्कारो वा एषा एकपदव्यभिचाराद्भजना २, किंविशिष्टो जीवो नमस्कारः ? किंविशिष्टस्त्वनमस्कार इति पृच्छा ३, अत्र प्रतिव्याकरणं दापना - नमस्कारपरिणतः जीवो नमस्कारो नापरिणत इति ४, निर्यापना त्वेष एव नमस्कारपर्यायपरिणतो जीवो नमस्कारः, नमस्कारोऽपि जीवपरिणाम एव नाजीवपरिणाम इति, एतदुक्तं भवति - दापना प्रश्नार्थव्याख्यानं निर्यापना तु तस्यैव निगमनमिति, अथवेयमन्या चतुर्विधा प्ररूपणेति, यत आह- 'नमोक्कारऽनमोक्कारे णोआदिजुए व णवधा वा' तत्र प्रकृत्यकारनोकारोभयनिषेधसमाश्रयाच्चातुर्विध्यं प्रकृतिः - स्वभावः शुद्धता यथा नमस्कार इति, स एव नञा सम्बन्धादकारयुक्तः अनमस्कारः, स एव नोशब्दोपपदे नोनमस्कारः, उभयनिषेधात्तु नोअनमस्कार इति, तत्र नमस्कारस्तत्परिणतो | जीवः, अनमस्कारस्त्वपरिणतो लब्धिशून्यः अन्यो वा 'नोआइजुए व'त्ति नोआदियुक्तो वा नमस्कारः अनमस्कारश्च, अनेन भङ्गकद्वयाक्षेपो वेदितव्यः, नोशब्देनाऽऽदिर्युक्तो यस्य नमस्कारस्येतरस्य चेत्यक्षरगमनिका, तत्र नोनमस्कारो विव| क्षया नमस्कारदेश: अनमस्कारो वा, देशसर्वनिषेधपरत्वान्नोशब्दस्य, नोअनमस्कारोऽपि अनमस्कारदेशो वा नमस्कारो वा, देशसर्वनिषेधत्वादेव, एषा चतुर्विधा, नैगमादिनयाभ्युपगमस्त्वस्याः पूर्वोक्तानुसारेण प्रदर्शनीयः, 'नवधा वे' ति प्रागुक्ता पञ्चविधा इयं चतुर्विधा च सङ्कलिता सती नवविधा प्ररूपणा प्रकारान्तरतो द्रष्टव्येति गाथार्थः ॥ ९०२ ॥ प्ररूपणाद्वारं गतम्, इदानीं निःशेषमिति, साम्प्रतं 'वत्थं तरहंताई पंच भवे तेसिमो हेउ' त्ति गाथाशकलोपन्यस्तमवस Jain Education Intelational For Personal & Private Use Only jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy