________________
SOCIRCLEARN
व्याख्या-'ज्ञानावरणीयस्य' इति सामान्यशब्देऽपि मतिश्रुतज्ञानावरणीयं गृह्यते, मतिश्रुतज्ञानान्तर्गतत्वात् तस्य, तथा सम्यगर्दशनसाहचर्याज्ज्ञानस्य दर्शनमोहनीयस्य च क्षयोपशमेन साध्यते, प्राकृतशैल्या तृतीयानिर्देशो द्रष्टव्यः, तस्य चावरणस्य द्विविधानि स्पर्धकानि भवन्ति-सर्वोपघातीनि देशोपघातीनि च, तत्र सर्वेषु सर्वघातिषूद्घातितेषु देशोपघातिनां च प्रतिसमयं विशुद्ध्यपेक्षं भागैरनन्तैः क्षयमुपगच्छद्भिर्विमुच्यमानः क्रमेण प्रथममक्षरं लभते, एवमेकैकवर्णप्राप्त्या समस्तनमस्कारमिति, क्षयोपशमस्वरूपं पूर्ववद् । गतं केनेति द्वारं, कस्मिन्नित्यधुना, तत्र कस्मिन्निति सप्तम्यधिकरणे, अधिकरणं चाधारः, स च चतुर्भेदः, तद्यथा-व्यापकः तैऔपश्लेषिकः सामीप्यको वैषयिकश्च, तत्र व्यापकः तिलेषु तैलम्.
औपश्लेषिकः-कटे आस्ते, सामीप्य कः-गङ्गायां घोषः, वैषयिकः-रूपे चक्षुः, तत्राद्योऽभ्यन्तरः, शेषा बाह्याः, तत्र नैगमव्यवहारौ बाह्यमिच्छतः, तन्मतानुवादि च साक्षादिदं गाथाशकलं-'जीवमजीवेत्यादि' जीवमजीव इति प्राकृतशैल्याऽनुस्वा
रस्याभूतस्यैवागमः, तत्त्वतस्तु जीवे अजीवे इत्याद्यष्टसु भङ्गेषु भवति सर्वत्रेति भावना, नमस्कारो हि जीवगुणत्वाज्जीवः, स 8 च यदा गजेन्द्रादौ तदा जीवे, यदा कटादौ तदाऽजीवे, यदोभयाऽऽत्मके तदा जीवाजीवयोः, एवमेकवचनबहुवचनभेदा
दष्टौ भङ्गाः प्रागुक्ता एव योज्याः। आह-पूज्यस्य नमस्कार इति नैगमव्यवहारी, स एव च किमित्याधारो न भवति । येन पृथगिष्यते, उच्यते, नावश्यं स्वेन स्वात्मन्येव भवितव्यम्, अन्यत्रापि भावात् , यथा देवदत्तस्य धान्यं क्षेत्र इति, ब्दाच्छेषनयाक्षेपः कृतः, संक्षेपतो दर्श्यते-तत्र सङ्घहोऽभेदपरमार्थत्वात् कश्चिद्वस्तुमात्रे अभीच्छति, कश्चित्तद्धर्मत्वाजीव इति, ऋजुसूत्रस्तु जीवगुणत्वाज्जीव एव मन्यते, आह-ऋजुसूत्रोऽन्याधारमपीच्छत्येव, 'आकाशे वसती ति वचनाद्, उच्यते,
Jain Educat
For Personal & Private Use Only
er og