SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया ॥ ३८० ॥ अष्टौ भङ्गा भवन्ति, तद्यथा - जीवस्य १ अजीवस्य २ जीवानां ३ अजीवानां ४ जीवस्य चाजीवस्य च ५ जीवस्य चाजीवानां च ६ जीवानामजीवस्य च ७ जीवानामजीवानां च ८, अत्रोदाहरणानि - "जीवस्स सो जिणस्स व अज्जीवस्स उ जिदिपडिमाए | जीवाण जतीणं पिव अज्जीवाणं तु पडिमाणं ॥ १ ॥ जीवस्साजीवस्स य जइणो बिंबस्स चेगओ समयं । जीवस्साजीवाण य जइणो परिमाण चेत्थं ॥ २ ॥ जीवाणमजीवस्स य जईण बिंबस्स चेगओ समयं । जीवाणमजीवाण य जईण पडिमाण चेत्थं ॥ ३ ॥” सङ्ग्रहमतं तु नमःसामान्यमात्रं तत्स्वामिमात्रस्य च वस्तुनो जीवो नम इति च तुल्याधिकरणम्, अभेदपरमार्थत्वात् तस्य, कश्चित्त शुद्धतरः पूज्यजीव पूजकजीवसम्बन्धाजीवस्यैव नमस्कार इत्येकं भङ्ग प्रतिपद्यते, ऋजुसूत्रमतं तु नमस्कारस्य ज्ञानक्रियाशब्दरूपत्वात् तेषां च कर्तुरनर्थान्तरत्वात् कर्तृस्वामिक एव, शब्दादिमतमपीदमेव, केवलमुपयुक्तकर्तृस्वामिकोऽसौ तस्य ज्ञानमात्रत्वात् ज्ञानमात्रता चास्योपयोगादेव फलप्राप्तेः, शब्दक्रियाव्यभिचारात्, एकत्वानेकत्वविचारस्तु नैगमादिनयापेक्षया पूर्ववदायोजनीय इति गाथार्थः ॥ ८९२ ॥ कस्येति गतं, केन ? इत्यधुना निरूप्यते - केन साधनेन साध्यते नमस्कारः ?, तत्रेयं गाथा नाणावर णिज्जस्स य दंसणमोहस्स तह खओवसमे । (दा०३) जीवमजीवे अट्ठसु भंगेसु उ होइ सव्वत्थ ॥८९३ ॥ १ जीवस्य स जिनस्यैव अजीवस्य तु जिनेन्द्रप्रतिमायाः । जीवानां यतीनामपि अजीवानां तु प्रतिमानाम् ॥ १ ॥ जीवस्याजीवस्य च यतेर्बिम्बस्य चैकतः समकम् । जीवस्याजीवानां च यतेः प्रतिमानां चैकत्र ॥ २ ॥ जीवानामजीवस्य च यतीनां बिम्बस्य चैकतः समकम् । जीवानामजीवानां च यतीनां प्रतिमानां चैकत्र ॥ ३ ॥ Jain Education International For Personal & Private Use Only नमस्कार ० वि० १ ॥३८० ॥ www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy