SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ न्धापत्तेः, अस्कन्धोऽपि न भवति, स्कन्धाभावप्रसङ्गाद्, अनभिलाप्योऽपि न भवति, वस्तुविशेषत्वात्, तस्मान्नोस्कन्धः, स्कन्धैकदेश इत्यर्थः, स्कन्धदेशविशेषार्थद्योतको नोशब्दः, एवं नोग्रामोऽपि भावनीयः, नवरं ग्रामः - चतुर्दशभूतग्रामसमुदायः, यथोक्तम्- "ऐगिंदिय सुहुमियरा सन्नियरपणिंदिया सबितिचऊ । पज्जत्तापजत्ता भेदेणं चोदसग्गामा ॥ १ ॥" अलंप्रसङ्गेन, प्रकृतं प्रस्तुमः - सामान्येनाशुद्धनयानां जीवस्तज्ज्ञानलब्धियुक्तो योग्यो वा नमस्कारः, शब्दादिशुद्धनयमतं त्वधिकृत्याह - 'तपरिणओ' जीव इति वर्तते, स हि नमस्कार परिणामपरिणत एव नमस्कारो नापरिणत इत्यर्थः । एकत्वानेकत्वचिन्तायां तु नैगमस्य सङ्ग्रहव्यवहारान्तर्गतत्वात् सङ्ग्रहादिभिरेव विचारः, तत्र सङ्ग्रहस्य नमस्कारजातिमात्रापेक्षत्वादेको नम स्कारः, व्यवहारस्य व्यवहारपरत्वाद् बहवो नमस्काराः, ऋजुसूत्रादीनां वर्तमानमात्रग्राहित्वाद् बहव एवोपयुक्ताश्चेति समासार्थः, व्यासार्थो विशेषावश्यकादवसेयः, किमितिद्वारं गतं । साम्प्रतं कस्य ? इति द्वारम्, इह च प्राक्प्रतिपन्नप्रतिपद्यमानकाङ्गीकरणतोऽभीष्टमर्थं निरूपयन्नाह - 'पुत्रपडिवन्नओ उ जीवाणं' इत्यादि, प्रकृतचिन्तायामिह पूर्वप्रतिपन्न एव यदाऽधिक्रियते तदा व्यवहारनयमतमाश्रित्य जीवानां जीवस्वामिक इत्यर्थः, प्रतिपद्यमानं तु प्रतीत्य जीवस्य जीवानां (वा) इत्यक्षरगमनिका, भावार्थस्तु नयैश्चिन्त्यते - यस्मान्नमस्कार्यनमस्कर्तृद्वयाधीनं नमस्कारकरणं, तत्र नैगमव्यवहारमतं नमस्कार्यस्य नमस्कारः, न कर्तुः, यद्यपि नमस्कारक्रियानिष्पादकः कर्ता तथाऽपि नासौ तस्य स्वयमनुपयुज्यमानत्वात्, यतिभिक्षावत, तथाहि न दातुर्भिक्षा निष्पादकस्य, अपि तु भिक्षोर्भिक्षेति प्रतीतम्, अत्र च सम्बन्धविशेषापेक्षावशप्रापिता १ एकेन्द्रियाः सूक्ष्मेतराः संज्ञीतराः पञ्चेन्द्रियाः सद्वित्रिचतुष्काः । पर्याप्तापर्याप्तभेदेन चतुर्दश ग्रामाः ॥ १ ॥ * क्षविवक्षावश० प्र० Jain Educational For Personal & Private Use Only Sjainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy