________________
व्याख्या-समुत्थानतो वाचनातो लब्धितश्च नमस्कारः समुत्पद्यत इति वाक्यशेषः, सम्यक् सङ्गतं प्रशस्तं वोत्थानं समुत्थानं तन्निमित्तं नमस्कारस्य, कस्य समुत्थानम्, अन्यस्याश्रुतत्वात्तदाधारभूतत्वात् प्रत्यासन्नत्वाद् देहस्यैव गृह्यते इति, युक्तं च देहसमुत्थानं नमस्कारकारणं, तद्भावभावित्वान्यथाऽनुपपत्तेरिति, अतः समुत्थानतः १, वाचनं वाचना-परतः श्रवणम् अधिगम उपदेश इत्यनान्तरं, सा च नमस्कारकारणं, तद्भावभावित्वादेवेति, अतो वाचनातः २, लब्धिः-तदावरणकर्मक्षयोपशमलक्षणा, सा च कारणं, तद्भावभावित्वादेव, अतो लब्धितश्च ३, पदान्तप्रयुक्तश्चशब्दो नयापेक्षया त्रयाणामपि प्राधान्यख्यापनार्थः । अत एवाह-'पढमे णयत्तिए तिविहंति प्रथमे नयत्रिकेऽशुद्धनैगमसङ्ग्रहव्यवहाराख्ये विचार्ये समुत्थानादि त्रिविधं नमस्कारकारणमिति, आह-प्रथमे नयत्रिकेऽशुद्धनैगमसनही कथं त्रिविधं कारणमिच्छतः १, तयोः सामान्यमात्रावलम्बित्वाद, उच्यते, 'आदिनेगमस्सऽणुप्पन्न' इत्यत्रेव प्रथमानयत्रिकात् तयोरुत्कलितत्वान्न दोषः, 'उज्जुसुयपढमवज्जति' ऋजुसूत्रः प्रथमवर्ज-समुत्थानाख्यकारणशून्यं कारणद्वयमेवेच्छति, समुत्थानस्य व्यभिचारित्वात् , तद्भावेऽपि वाचनालब्धिशून्यस्यासम्भवात्, 'सेस नया लद्धिमिच्छंति'त्ति शेषनयाः-शब्दादयो लब्धिमेव एका कारणमिच्छन्ति, वाचनाया अपि व्यभिचारित्वात्, तथाहि-सत्यामपि वाचनायां लब्धिरहितस्य गुरुकर्मणोऽभव्यस्य वा नैवोत्पद्यते नमस्कारः, तस्यां सत्यामेवोत्पद्यते, ततोऽसाधारणत्वात्सव कारणमिति गाथार्थः ॥८८९ ॥द्वारम् १॥ इदानीं निक्षेपः, स च चतुर्धा-नामनमस्कारः स्थापनानमस्कारः द्रव्यनमस्कारः भावनमस्कारश्च, नामस्थापने सुगमे, ज्ञभव्यशरीरातिरिक्तद्रव्यनमस्काराभिधित्सयाऽऽह
Jain Education International
For Personal & Private Use Only
ainelibrary.org