________________
आवश्यक हारिभद्रीया
नमस्कार वि०१
॥३७७॥
CAMERA
उप्पन्नाऽणुप्पन्नो इत्थ नयाऽऽइनिगमस्सऽणुप्पन्नो । सेसाणं उप्पन्नो जइ कत्तो, तिविहसामित्ता ॥ ८८८ ॥
व्याख्या-उत्पन्नश्चांसावनुत्पन्नश्च स इति समानाधिकरणः, तेन नविशिष्टेनानञ् (पा-२-१-६) कृताकृतादिवदुत्पन्नानुत्पन्ना, स्याद्वादिन एव एवंप्रकारः समासो युज्यते, नान्यस्यैकान्तवादिनः, एकत्रैकदा परस्परविरुद्धधर्मानभ्युपगमात, आह–स्याद्वादिनोऽपि कथमेकत्रैकदा परस्परविरुद्धधर्माध्यास इति, उच्यते, 'एत्थ णयत्ति अत्र नयाः प्रवर्तन्ते,
ते च नैगमादयः सप्त, नैगमोऽपि द्विभेदः-सर्वसङ्ग्राही देशसङ्ग्राही च, तत्रादिनैगमस्य सामान्यमात्रावलम्बित्वात् तस्य ४|चोत्पादव्ययरहितत्वान्नमस्कारस्यापि तदन्तर्गतत्वादनुत्पन्नः, 'सेसाणं उप्पण्णो'त्ति शेषाः-विशेषग्राहिणस्तेषां शेषाणां विशेपग्राहित्वात् तस्य चोत्पादव्ययवत्त्वात् उत्पादव्ययशून्यस्य वान्ध्येयादिवदवस्तुत्वात् नमस्कारस्य च वस्तुत्वादुत्पन्न इति, आह-शेषाः सङ्ग्रहादयः, सनहस्य च विशेषग्राहित्वं नास्तीति, उच्यते, तस्यादिनैगम एवान्तर्भावान्न दोष इति, अत: शेषाणामुत्पन्नः, 'जइ कत्तो'त्ति यद्युत्पन्नः कुत? इति, आह-'तिविह-सामित्ता' त्रिविधं च तत् स्वामित्वं चेति समासः, तस्मात्रिविधस्वामित्वात्-त्रिविधस्वामिभावात् त्रिविधकारणादित्यर्थः।आह-एवमप्येकत्रैकदा परस्परविरुद्धधर्माध्यासदोषस्तदवस्थ एव, न, अशेषवस्तुन एव तत्त्वतः सामान्यविशेषात्मकत्वात् , सामान्यधर्मैः सत्त्वादिभिरनुत्पादादू विशेषधमैः संस्थानानुपूर्व्यादिभिरुत्पादाद, विजृम्भितं चात्र भाष्यकृता तत्तु नोच्यते ग्रन्थविस्तरभयाद्,गमनिकामात्रमेवैतदिति गाथार्थः ८८८ यदुक्तं-'त्रिविधस्वामित्वादिति, तत् त्रिविधस्वामित्वमुपदर्शयन्नाहसमुट्ठाण १ वायणा २ लद्धिओ ३ पढमे नयत्तिए तिविहं। उजुसुय पढमवजं सेसनया लद्धिमिच्छति ॥८८९॥
॥३७७॥
Jain Education International
For Personal & Private Use Only
amsainelibrary.org