________________
व्याख्याता. मध्यमङ्गलाथै तु तीर्थकरादिगुणाभिधायक: "तित्थेकरें' इत्यादि गाथासमूहः, नमस्कारस्त्ववसानमङ्गलार्थ इति. एतच्चायुक्तं, शास्त्रस्यापरिसमाप्तत्वादवसानत्वानुपपत्तेः, न चाऽऽदिमङ्गलत्वमप्यस्य युज्यते, तस्य कृतत्वात् , कृतकरणे चानवस्थाप्रसङ्गात, अलं पा परबुद्धिमान्द्यप्रदशेनेन, नेष सतां न्यायः, सर्वथा गुरुवचनाद् यथाऽवधारितं तत्त्वार्थमेव प्रतिपादयामः । सूत्रादिश्च नमस्कारः, अतस्तमेव प्राग् व्याख्याय सूत्रं व्याख्यास्यामः, स चोत्पत्त्याद्यनुयोगद्वारानुसारतो व्याख्येयः, तत्र नमस्कारनियुक्तिप्रस्ताविनीमिमामाह गाथां नियुक्तिकारः
उप्पत्ती ( १ ) निक्खेवो (२) पयं (३) पयत्थो (४) परूवणा (५) वत्थु (६)।
अक्खेव ( ७ ) पसिद्धि (८) कमो (९) पओयणफलं नमोकारो॥ ८८७॥ व्याख्या-उत्पादनम् उत्पत्तिः, प्रसूतिः उन्माद इत्यर्थः, सोऽस्य नमस्कारस्य नयानुसारतश्चिन्त्यः, तथा निक्षेपणं निक्षेपो न्यास इत्यर्थः, स चास्य कार्यः, पद्यतेऽनेनेति पदं तच्च नामिकादि, तच्चास्य वाच्यं, तथा 'पदार्थः' पदस्यार्थः पदार्थः, स च वाच्यः, तस्य च निर्देशः सदाद्यनुयोगद्वारविषयत्वात्, प्रकर्षेण रूपणा-प्ररूपणा कार्येति, वसन्त्यस्मिन् गुणा इति वस्तु तदहं वाच्यम्, आक्षेपणम् आक्षेपः आशङ्केत्यर्थः, सा च कार्या, प्रसिद्धिः तत्परिहाररूपा वाच्येति, क्रमः अहंदादिरभिधेयः, 'प्रयोजन' तद्विषयमेव, अथवा येन प्रयुक्तः प्रवर्तते तत्प्रयोजनम्-अपवर्गाख्यं,तथा 'फलं तच्च क्रियाऽनन्तरभावि स्वर्गादिकम्, अन्ये तु व्यत्ययेन प्रयोजनफलयोरथ प्रतिपादयन्ति, नमस्कारः (९५०० ग्रन्थाग्रं ) खल्वेभिारैश्चिन्त्य इति गाथासमुदायार्थः॥ ८८७ ॥ 'यथोद्देशं निर्देश' इति न्यायमाश्रित्योत्पत्तिद्वारनिरूपणायाऽऽह नियुक्तिकारः
Jain Educa
For Personal & Private Use Only
selibrary.org