________________
आवश्यक- हिंसाभिधायक-'षटू शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः॥१॥ इत्या
सूत्रस्वरूपं हारिभदिवचनवत्, एवंभूतं सूत्रं सर्वज्ञभाषितमिति । ततश्च सूत्रानुगमात् सूत्रेऽनुगतेऽनवद्यमिति निश्चिते पदच्छेदानन्तरं
वि०१ द्रीया
| सूत्रपदनिक्षेपलक्षणः सूत्रालापकन्यासः, ततः सूत्रस्पर्शनियुक्तिश्चरमानुयोगद्वारविहिता नयाश्च भवन्ति, समकं चैतदनुग-18 ॥३७६॥ च्छतीति, आह च भाष्यकार:-"सुत्तं सुत्ताणुगमो सुत्तालावगकओय निक्खेवो । सुत्तप्फासियनिजत्ती णया य समगं तु
वच्चंति ॥१॥" सूत्रानुगमादीनां चायं विषयः-सपदच्छेदं सूत्रमभिधाय अवसितप्रयोजनो भवति सूत्रानुगमः, सूत्रालापकन्यासोऽपि नामादिनिक्षेपमात्रमेवाभिधाय, सूत्रस्पर्शनियुक्तिस्तु पदार्थविग्रहविचारप्रत्यवस्थानाद्यभिधायेति, तच्च प्रायो नैगमादिनयमतविषयमिति वस्तुतस्तदन्त विन एव नया इति, न चैतत् स्वमनीषिकयोच्यते, यत आह भाष्यकार:"होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो। सुत्तालावयनासो नामाइण्णासविणिओगं ॥ १॥ सुत्तफासियनिजुत्तिविनिओगो सेसओ पयत्थाई । पायं सो च्चिय नेगमणयाइमयगोयरो होइ ॥ २॥" आह-यद्येवमुत्कमतो निक्षेपद्वारे किमिति सूत्रालापकन्यासोऽभिहित ?, उच्यते, निक्षेपसामान्यालाघवार्थमित्यलं प्रसङ्गेन । एवं विनेयजनानग्रहायानगमादीनां प्रसङ्गतो विषयविभागः प्रदर्शितः, अधुना प्रकृतं प्रस्तुमः, तत्र सूत्रं सूत्रानुगमे |SI
सत्युच्चारणीयं, तच्च पञ्चनमस्कारपूर्वकं, तस्याशेषश्रुतस्कन्धान्तर्गतत्वात्, अतोऽसावेव सूत्रादौ व्याख्येयः, सर्वसूत्रादि* त्वात् , सर्वसम्मतसूत्रादिवत् , सूत्रादित्वं चास्य सूत्रादौ व्याख्यायमानत्वात् , नियुक्तिकृतोपन्यस्तत्वाद्, अन्ये तु व्याच
क्षते-मङ्गलत्वादेवायं सूत्रादौ व्याख्यायत इति, तथाहि-त्रिविधं मङ्गलम्-आदौ मध्येऽवसाने च, तत्राऽऽदिमङ्गलार्थ नन्दी
dain Education International
For Personal & Private Use Only
jainelibrary.org