SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ मेरुसमो बिन्दुः समुद्रोपम इत्यादि २८, रूपकदोषः स्वरूपावयवव्यत्ययः, यथा पर्वतरूपावयवानां पर्वतेनानभिधानं, समुद्रावयवानां चाभिधानमित्यादि २९, 'अनिर्देशदोषः' यत्रोद्देश्यपदानामेकवाक्यभावो न क्रियते, यथेह देवदत्तः स्थाल्यामोदनं पचतीति वक्तव्ये पचतिशब्दानभिधानं ३०, ‘पदार्थदोषः' यत्र वस्तुपर्यायवाचिनः पदस्यार्थान्तरपरिकल्पनाssश्रीयते, यथेह द्रव्यपर्यायवाचिनां सत्तादीनां द्रव्यादर्थान्तरपरिकल्पनमुलूकस्य ३१, 'सन्धिदोषः' विश्लिष्टसंहितत्वं व्यत्ययो वेति ३२ । एभिर्विमुक्तं द्वात्रिंशद्दोषरहितं लक्षणयुक्तं सूत्रं तदिति वाक्यशेषः, 'द्वात्रिंशद्दोषरहितं यच्च' इति वचनात्तच्छब्दनिर्देशो गम्यते ॥ अष्टाभिश्च गुणैरुपेतं यत् तल्लक्षणयुक्तमिति वर्तते, ते चेमे गुणाः निहोस" सारंवन्तं च हेउसिमलंकियं । उर्वणीयं सोयारंच मिर्य" महरमेव य ॥ ८८५॥ व्याख्या-'निर्दोष' दोषमुक्तं 'सारवत्' बहुपर्याय, गोशब्दवत्सामायिकवद्वा, अन्वयव्यतिरेकलक्षणा हेतवस्तद्युक्तम् , 'अलङ्कृतम्' उपमादिभिरुपेतम् , 'उपनीतम्' उपनयोपसंहृतं, 'सोपचारम्' अग्राम्याभिधानं, 'मितं' वर्णादिनियतपरिमाणं, 'मधुर' श्रवणमनोहरम् । अथवाऽन्ये सूत्रगुणाः___ अप्पक्खरमसंदिद्धं सौरवं विस्सओमुंह । अत्योभमणवंजं च सुत्तं सव्वाणुंभासियं ॥ ८८६ ॥ व्याख्या-'अल्पाक्षरं' मिताक्षरं, सामायिकाभिधानवत् , 'असंदिग्ध' सैन्धवशब्दवल्लवणघोटकाद्यनेकार्थसंशयकारि न भवति, 'सारवत्' बहुपर्याय, 'विश्वतोमुखम्' अनेकमुखं प्रतिसूत्रमनुयोगचतुष्टयाभिधानात्, प्रतिमुखमनेकार्थाभिधायक वा सारवत्, 'अस्तोभकं' वैहिहकारादिपदच्छिद्रपूरणस्तोभकशून्यं, स्तोभका:-निपाताः, 'अनवद्यम्' अगा, न | CCCCCCCCORCAMCESS Jain Educatio n al For Personal & Private Use Only Lainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy