________________
आवश्यकहारिभ द्रीया
पञ्चक्खे दहणं जीवाजीवे य पुण्णपावं च । पच्चक्खाया जोगा सावजा तेतलिसुएणं ॥ ८७९॥ व्याख्या प्रत्यक्षानिव दृष्ट्वा देवसंदर्शनेन, कान् ?-जीवाजीवान् पुण्यपापं च प्रत्याख्याता योगाः सावद्यास्तेतलिसुतेनेति गाथार्थः॥ ८७९ ॥ गतं निरुक्तिद्वारं, समाप्ता चोपोद्घातनियुक्तिरिति ॥
सूत्रस्वरूपं वि०१
॥३७४||
___ अथ सूत्रस्पर्शिकनियुक्त्यवसरः, सा च प्राप्तावसराऽपि नोच्यते, यस्मादसति सूत्रे कस्यासाविति, ततश्च सूत्रानुगमे वक्ष्यामः । आह-यद्येवं किमिति तस्याः खल्विहोपन्यासः?, उच्यते, नियुक्तिमात्रसामान्यात्, एवं सूत्रानुगमोऽप्यवसरप्राप्त एव, तत्र च सूत्रमुच्चारणीयं, तच्च किम्भूतं ?, तत्र लक्षणगाथा
अप्परगंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणजुत्तं सुत्तं अद्वहि य गुणेहि उववेयं ॥८८०॥ ___ व्याख्या-अल्पग्रन्थं च महार्थं चेति विग्रहः, 'उत्पादव्ययध्रौव्ययुक्तं सदि' त्यादिवत् , अधिकृतसामायिकसूत्रवद्वा, द्वात्रिंशद्दोषविरहितं यच्च, क एते द्वात्रिंशद्दोषाः?, उच्यन्तेअलियमुवघायजेणयं निरत्थयमवयं छलं दुहिलं । निस्सारमधियणं पुणरुत्तं वाहयमजुत्तं ॥ ८८१॥ कमभिण्णवर्यणभिण्णं विभत्तिभिन्नं चलिंगभिन्नं च।अणभिहियमपयमेव य सभोवहीणं वहियं च ॥८८२॥ कालतिच्छेविदोसा समयविरुद्धं च वर्यणमित्तं च । अत्थावत्तीदोसो य होइ अर्समासदोसो य ॥ ८८३ ॥ उर्वमास्वंगदोसाऽनिदेसे पैदथसंघिदोसो य । एए उ सुत्तदोसा बत्तीसं होंति णायव्वा ॥ ८८४ ॥ । व्याख्या-तत्र 'अनृतम्' अभूतोद्भावनं भूतनिहवश्च, अभूतोद्भावनं-प्रधानं कारणमित्यादि, भूतनिहवः-नास्त्यात्मे
॥३७४॥
Jain Educatio
n
al
For Personal & Private Use Only
IDrainelibrary.org