________________
CURSOSASSAROS
त्यादि १, 'उपघातजनक' सत्त्वोपघातजनकं, यथा वेदविहिता हिंसा धर्मायेत्यादि २, वर्णक्रमनिर्देशवत् निरर्थकमारादेसा६ दिवत् , आर् आत् एस् इत्येते आदेशाः, एतेषु वर्णानां क्रमनिदर्शनमात्र विद्यते, न पुनरभिधेयतया कश्चिदर्थः प्रतीयते,
इत्येवंभूतं निरर्थकमभिधीयते, डित्थादिवद्वा ३, पौर्वापर्यायोगादप्रतिसम्बन्धार्थमपार्थकं, तथा दश दाडिमानि षडप्पाः कुण्डमजाजिनं पललपिण्डः त्वर कीटिके ! दिशमुदीची, स्पर्शनकस्य पिता प्रतिसीन इत्यादि ४, वचनविघातोऽर्थविकल्पोपपत्त्या छलं वाक्छलादि, यथा नवकम्बलो देवदत्त इत्यादि ५, द्रोहस्वभावं द्रुहिलं, यथा-'यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, नासौ पापेन युज्यते ॥१॥' कलुषं वा दुहिलं, येन पुण्यपापयोः समताऽsपाद्यते, यथा-'एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः' इत्यादि ६, 'निःसारं' परिफल्गु वेदवचनवत् ७, वर्णादिभिरभ्यधिकम्-अधिक ८, तैरेव हीनम्-उनम् ९, अथवा हेतूदाहरणाधिकमधिकं, यथाऽनित्यः शब्दोः कृतकत्वप्रयत्नानन्तरीयकत्वाभ्यांघटपटवदित्यादि, एताभ्यामेव हीनम्-ऊनं यथा-अनित्यः शब्दोघटवत् अनित्यः शब्दः कृतकत्वादित्यादि 1८-९, शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्रानुवादात्, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं, तत्र शब्दपुनरुक्तम्-इन्द्र
इन्द्र इति, अर्थपुनरुक्तम्-इन्द्रः शक्र इति, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं, यथा-पीनो देवदत्तो दिवा न भुङ्क्ते बलवान् पट्विन्द्रियश्च, अर्थादापन्नं रात्रौ भुत इति, तत्र यो ब्रूयात्-दिवा न भुङ्क्ते रात्रौ भुत इति स पुनरुक्तमाह १०, |'व्याहतं' यत्र पूर्वेण परं विहन्यते, यथा-'कर्म चास्ति फलं चास्ति, कर्ता नास्ति च कर्मणा' मित्यादि ११, "अयुक्तम्' अनुपपत्तिक्षम, यथा-'तेषां कटतटभ्रष्टगजानां मदबिन्दुभिः। प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥१॥ इत्यादि
Jain Education intentona
For Personal & Private Use Only
mainelibrary.org