________________
आवश्यक॥३७१ ॥
| सीसेण गहिएणं दिसामूढो जाओ, जाव एगं साहुं पासइ आयाविंतं, तं भणइ - समासेण धम्मं कहेहि, मा एवं चेव तुम्भवि सीसं पाडेमि, तेण भणियं - उवसमविवेयसंवरं, सो एयाणि पयाणि गहाय एगंते चिंतिमारद्धो-उवसमो कायवो कोहा५ ईणं, अहं च कुद्धओ, विवेगो धणसयणस्स कायचो, तं सीसं असिं च पाडेइ, संवरो - इंदियसंवरो नोइंदियसंवरो य, एवं झायइ जाव लोहियगंधेण कीडिगाओ खाइउमारद्धाओ, सो ताहिं जहा चालिणी तहा कओ, जाव पायच्छिराहिं जाव सीसकरोडी ताव गयाओ, तहवि ण झाणाओ चलिओत्ति ॥ तथा चामुमेवार्थं प्रतिपिपादयिषुराह -
Jain Educati
जो तिहि पएहि सम्मं समभिगओ संजमं समारूढो । उवसमविवेयसंवरचिलायपुत्तं णमंसामि ॥ ८७२ ॥
व्याख्या – यस्त्रिभिः पदैः सम्यक्त्वं 'समभिगतः ' प्राप्तः, तथा संयमं समारूढः, कानि पदानि ? उपशमविवेकसंवराः उपशमः - क्रोधादिनिग्रहः, विवेक:- स्वजनसुवर्णादित्यागः, संवर- इन्द्रियनोइन्द्रियगुप्तिरिति, तमित्थम्भूतमुपशमविवेकसंवरचिलातपुत्रं नमस्ये, उपशमादिगुणानन्यत्वाच्चिलातपुत्र एवोपशमविवेकसंवर इति स चासौ चिलातपुत्रश्चेति समानाधिकरण इति गाथार्थः ॥ ८७२ ॥
१ शीर्षे गृहीते (गृहीतशीर्षः ) दिङ्मूढो जातः, यावदेकं साधुं पश्यति आतापयन्तं तं भणति समासेन धर्मं कथय, मैवमेव तवापि शीर्ष पीपतं, तेन भणितम्-उपशमविवेकसंवरं, स एतानि पदानि गृहीत्वा एकान्ते चिन्तितुमारब्धः- उपशमः कर्त्तव्यः क्रोधादीनाम्, अहं च क्रुद्धः, विचेको धनस्वजनस्य कर्तव्यः तत् शीर्षमसिं च पातयति, संवर इन्द्रियसंवरो नोइन्द्रियसंवरश्च एवं ध्यायति यावद्बुधिरगन्धेन कीटिकाः खादितुमारब्धाः, स ताभिर्यथा चालनी तथा कृतः, यावत् पादशिरातो यावत् शीर्षकरोटिका तावद्गताः, तथापि न ध्यानाञ्चलित इति ।
ational
For Personal & Private Use Only
हारिभद्रीवृत्तिः
५ विभागः १
॥३७१ ॥
jainelibrary.org