________________
भण्यंत, किमित्यम्भूत एव ?, नेत्याह-भावेन च' आत्मपरिणामलक्षणेन यदि न भवति पापमनाः-अवस्थितमना अपीत्यर्थः अथवा भावेन च यदि न भवति पापमनाः, निदानप्रवृत्तपापमनोरहित इति भावना, तथा स्वजने च मात्रादिके जने चान्यस्मिन् समः-तुल्यः, समश्च मानापमानयोरिति गाथार्थः ॥ ८६७॥
त्थि य सि कोइ वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अण्णोवि पन्जाओ ॥ ८६८ ॥ ___ व्याख्या-नास्ति च 'से' तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, एतेन भवति समणः, सम् अणति-गच्छतीति समणः, एषोऽन्योऽपि पर्याय इति गाथार्थः ॥ द्वारम् ॥ इदानीं समयिक, तत्र कथानकम्साएते णगरे चंडवडंसओ राया, तस्स दुवे पत्तीओ-सुदंसणा पियदसणा य, तत्थ सुदंसणाए दुवे पुत्ता-सागरचंदो मुणिचंदो य पियदंसणाएवि दो पुत्ता-गुणचंदो बालचंदो य, सागरचंदो जुवराया, मुणिचंदस्स उज्जेणी दिण्णा कुमारभुत्तीए । इओ य चंडवडंसओ राया माहमासे पडिमं ठिओ वासघरे जाव दीवगो जलइत्ति, तस्स सेज्जावाली चिंतेइदुक्खं सामी अंधतमसे अच्छिहिति, ताए बितिए जामे विज्झायंते दीवगे तेल्लं छुढं, सो ताव जलिओ जाव अद्धरत्तो, ताहे
साकेते नगरे चन्द्रावतंसको राजा, तस्य द्वे पत्यौ-सुदर्शना प्रियदर्शना च, तत्र सुदर्शनाया द्वौ पुत्रौ-सागरचन्द्रो मुनिचन्द्रश्च, प्रियदर्शनाया अपि द्वौ पुत्रौ-गुणचन्द्रो बालचन्द्रश्च, सागरचन्द्रो युवराजः, मुनिचन्द्रायोज्जयिनी कुमारभुक्त्यां दत्ता । इतश्च चन्द्रावतंसको राजा माघमासे प्रतिमया स्थितो वासगृहे यावद्दीपो ज्वलतीति, तस्य शाय्यापालिका चिन्तयति-दुःखं स्वामी अन्धतमसे स्थास्यति, तया द्वितीये यामे विध्यायति दीपे तैलं क्षिप्तं, स तावत्प्रज्वलितो यावदर्धरात्रं, तदा * अनवस्थित प्र.
Jain Education International
For Personal & Private Use Only
inelibrary.org