________________
आवश्यक- व्याख्या-'सामायिकम्' इति रागद्वेषान्तरालवी समः मध्यस्थ उच्यते, 'अय गता' विति अयनम् अयः-गमन-13
|हारिभद्रीमित्यर्थः, समस्य अयः समायः स एव विनयादिपाठात् स्वार्थिकठक्प्रत्ययोपादानात् सामायिकम् , एकान्तोपशान्तिगमन- यवृत्तिः ॥३६४॥
मित्यर्थः, समयिक समिति सम्यक्शब्दार्थ उपसर्गः, सम्यगयः समयः-सम्यगू दयापूर्वकं जीवेषु.गमनमित्यर्थः, समयोऽ- विभागः१
स्यास्तीति, 'अत इनि ठना (पा०५-२-११५) विति ठन् समयिक, सम्यग्वादः रागादिविरहः सम्यक् तेन तत्प्रधान दावा वदनं सम्यग्वादः, रागादिविरहेण यथावद् वदनमित्यर्थः, समासः 'असु क्षेपण' इति असनम् आसः-क्षेप इत्यर्थः,
संशब्दः प्रशंसार्थः शोभनमसनं समासः, अपवर्गे गमनमात्मनः कर्मणो वा जीवात् पदत्रयप्रतिपत्तिवृत्त्या क्षेपः समासः, 'संक्षेपः' संक्षेपणं संक्षेपः स्तोकाक्षरं सामायिक महार्थं च द्वादशाङ्गपिण्डार्थत्वात्, अनवद्यं चेति अवयं पापमुच्यते नास्मिन्नवद्यमस्तीत्यनवधं सामायिकमिति, परिः-समन्ताज्ज्ञानं पापपरित्यागेन परिज्ञा सामायिकमिति, परिहरणीयं वस्तु वस्तु प्रति आख्यानं प्रत्याख्यानं च, त एते सामायिकपर्याया अष्टाविति गाथार्थः ॥ ८६४॥ एतेषामष्टानामप्या मनुष्ठावन् यथासङ्ख्येनाष्टावेव दृष्टान्तभूतान् महात्मनः प्रतिपादयन्नाहदमदंते मेयजे कालयपुच्छा चिलाय अत्तेय । धम्मरुइ इला तेयलि सामाइए अट्टदाहरणा ॥८६५॥
व्याख्या-दमदन्तः मेतार्यः कालकपृच्छा चिलातः आत्रेयः धर्मरुचिः इला तेतलिः, सामायिकेऽष्टावुदाहरणानीति गाथासमुदायार्थः ॥ ८६५॥ अवयवार्थस्तु कथानकेभ्योऽवसेय इति, तत्र यथोद्देश निर्देश इति सामायिकमर्थतो दमद
॥३६॥ * इण् गतौ इति प्र० + आयःप्र० उपशमविवेकसंवररूपं.
Jain Educati
o nal
For Personal & Private Use Only
D
anelibrary.org