SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ मोहनं मोहः-वितथग्रहः न मोहः अमोहः-अवितथग्रहः, शोधन-शुद्धिः मिथ्यात्वमलापगमात् सम्यक्त्वं शुद्धिः, सत्|जिनाभिहितं प्रवचनं तस्य भावः सद्भावः तस्य दर्शनम्-उपलम्भः सद्भावदर्शनमिति, बोधनं बोधिरित्यौणादिक इत्, परमार्थसम्बोध इत्यर्थः, अतस्मिंस्तदध्यवसायो विपर्ययः न विपर्ययः अविपर्ययः, तत्त्वाध्यवसाय इत्यर्थः, सुशब्दः प्रशंसायां, शोभना दृष्टिः सुदृष्टिरिति, एवमादीनि सम्यग्दर्शनस्य निरुक्तानीति गाथार्थः ॥ ८६१॥ श्रुतसामायिकनिरुक्तिप्रदर्शनायाऽऽहअक्खर सन्नी संमं सादियं खलु सपजवसियं च । गमियं अंगपविढे सत्तवि एए सपडिवक्खा ॥ ८६२॥ व्याख्या-इयं च गाथा पीठे व्याख्यातत्वान्न वित्रियते ॥ देशविरतिसामायिकनिरुक्तिमाह विरयाविरई संवुडमसंवुडे बालपंडिए चेव । देसेकसविरई अणुधम्मो अगारंधम्मो य ॥ ८६३ ॥ व्याख्या-विरमणं विरतं, भावे निष्ठाप्रत्ययः, न विरतिः-अविरतिः, विरतं चाविरतिश्च यस्यां निवृत्तौ सा विरताविरतिः, संवृतासंवृताः सावद्ययोगा यस्मिन् सामायिके तत् तथा, संवृतासंवृताः-स्थगितास्थगिताः परित्यक्तापरित्यक्ता इत्यर्थः, एवं बालपण्डितम् , उभयव्यवहारानुगतत्वाद्, देशैकदेशविरतिः प्राणातिपातविरतावपि पृथिवीकायाद्यविरति| गृह्यते, अणुधर्मो बृहत्साधुधर्मापेक्षया देशविरतिरिति, अगारधर्मश्चेति न गच्छन्तीत्यगाः-वृक्षास्तैः कृतमगारं-गृहं तद्योगादगार:-गृहस्थः तद्धर्मश्चेति गाथार्थः॥ ८६३ ॥ सर्वविरतिसामायिकनिरुक्तिमुपदर्शयन्नाहसामाइयं समइयं सम्मावाओ समास संखें वो । अणवलं च परिण्णा पञ्चक्खाणे य ते अट्ठ ॥ ८६४ ॥ Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy