________________
आवश्यक
॥३६३॥
Jain Educatio
नेत्याह- 'निरवशेषम्' असङ्ख्यातप्रदेशमपि एते च केवलिसमुद्घातावस्थायामिति, जघन्यतस्त्व सङ्ख्येय भागमिति । तथा'सत् य चोहसभागे पंच य सुयदेसविरईए' त्ति श्रुतसामायिकसहिताः सप्त चतुर्दशभागान् स्पृशन्ति, अनुत्तरसुरेष्विलिकागत्या समुत्पद्यमानाः, चशब्दात् पञ्च तमः प्रभायां देशविरत्या सहिताः पञ्च चतुर्दशभागान् स्पृशन्तीति, अच्युते उत्पद्यमानाः, चशब्दात् द्व्यादींश्चान्यत्रेति, अधस्तु ते न गच्छन्त्येव घण्टालालान्यायेनापि तं परिणाममपरित्यज्येति गाथार्थः ॥ ८५९ ॥ एवं क्षेत्रस्पर्शनोक्ता, साम्प्रतं भावस्पर्शनोच्यते- किं श्रुतादिसामायिकं ? कियद्भिर्जीवैः स्पृष्टमित्याह
सव्वजीवेहिं सुयं सम्मचरित्तारं सव्वसिद्धेहिं । भागेहि असंखेज्जेहिं फासिया देसविरईओ || ८६० ॥ व्याख्या - सर्वजीवैः सांव्यवहारिकराश्यन्तर्गतैः सामान्यश्रुतं स्पृष्टं, सम्यक्त्व चारित्रे सर्वसिद्धैः स्पृष्ठे, तदनुभवमन्तरेण सिद्धत्वानुपपत्तेः, भागैरसोयैः सिद्धभागैः स्पृष्टा देशविरतिस्तु, इदमत्र हृदयं - सर्वसिद्धानां बुद्ध्याऽसङ्ख्येयभागी कृतानामसङ्ख्येय भागैर्भागोनैर्देशविरतिः स्पृष्टा, असत्येयभागेन तु न स्पृष्टा, यथा - मरुदेवास्वामिन्येति गाथार्थः ॥ ८६० ॥ द्वारम् ॥ इदानीं निरुक्तिद्वारं, चतुर्विधस्यापि सामायिकस्य निर्वचनं, क्रियाकारकभेदपर्यायैः शब्दार्थकथनं निरुक्तिः, तत्र सम्यक्त्व सामायिकनिरुक्तिमभिधित्सुराह—
(E)
सम्मद्दिट्ठि अमोहो सोही सन्भाव दसणं बोही । अविवँजओ सुदिट्ठित्ति एवमाई निरुत्ता ॥ ८६१ ॥ व्याख्या—सम्यक् इति प्रशंसार्थः, दर्शनं - दृष्टिः, सम्यग् - अविपरीता दृष्टिः- सम्यग्दृष्टिः, अर्थानामिति गम्यते,
* प्रतिप्रदेशव्याप्येत्यर्थः,
Kalatonal
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः१
॥३६३॥
www.jainelibrary.org