________________
तिण्ह सहस्सपुहुत्तं सयप्पुहुत्तं च होइ विरईए । एगभवे आगरिसा एवतिया होंति नायव्वा ॥ ८५७ ॥ व्याख्या-आकर्षणम् आकर्षः-प्रथमतया मुक्तस्य वा ग्रहणमित्यर्थः, तत्र त्रयाणां-सम्यक्त्वश्रुतदेशविरतिसामायिकानां सहस्रपृथक्त्वं, पृथक्त्वमिति द्विप्रभृतिरा नवभ्यः, शतपृथक्त्वं च भवति विरतेरेकभवे आकर्षा एतावन्तो भवन्ति ज्ञातव्या उत्कृष्टतः, जघन्यतस्त्वेक एवेति गाथार्थः॥ ८५७॥ तिण्ह सहस्समसंखा सहसपुहुत्तं च होइ विरईए । णाणभवे आगरिसा एवइया होंति णायव्वा ॥ ८५८ ॥ ___ व्याख्या-त्रयाणां-सम्यक्त्वश्रुतदेशविरतिसामायिकानां सहस्राण्यसङ्ख्येयानि, सहस्रपृथक्त्वं च भवति विरतेः, एता| वन्तो नानाभवेष्वाकर्षाः । अन्ये पठन्ति-'दोण्ह सहस्समसंखा' तत्रापि श्रुतसामायिक सम्यक्त्वसामायिकानान्तरीयकत्वादनुक्तमपि प्रत्येतव्यम् , अनन्ताश्च सामान्यश्रुते ज्ञातव्या इत्यक्षरार्थः । इयं भावना-त्रयाणां ह्येकभवे सहस्रपृथक्त्वमाकर्षाणामुक्त, भवाश्च पल्योपमासङ्ख्येयभागसमयतुल्याः, ततश्च सहस्रपृथक्त्वं भवति तैर्गुणितं सहस्राण्यसङ्खयेयानीति, सहस्रपृथक्त्वं चेत्थं भवति-विरतेः खल्वेकभवे शतपृथक्त्वमाकर्षाणामुक्तं, भवाश्चाष्टौ, ततश्च शतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भवतीत्यवयवार्थः ॥ ८५८ ॥ द्वारं ॥ स्पर्शनाद्वारमधुना, तत्रेयं गाथासम्मत्तचरणसहिया सव्वं लोगं फुसे णिरवसेसं । सत्त य चोदसभागे पंच य सुयदेसविरईए ॥ ८५९॥ व्याख्या-'सम्यक्त्वचरणसहिताः सम्यक्त्वचरणयुक्ताः प्राणिन उत्कृष्टतः सर्व लोकं स्पृशन्ति, किं बहित्यिा ?.
Jain Education
na
For Personal & Private Use Only
nelibrary.org