________________
RECRUSSROORDAROO
तदसङ्ख्येयगुणास्तु देशविरतिप्रतिपतिताः, तदसङ्ख्येयगुणाश्च सम्यक्त्वप्रतिपतिता इति । अत्रान्तरे सामान्य श्रुतप्रतिपतितानधिकृत्यैष्यगाथापश्चार्द्ध व्याख्येयं सेसा संसारत्था सुयपरिवडिया हु ते सो' ॥८५२॥ सम्यक्त्वप्रतिपतितेभ्यस्तेऽनन्तगुणा इति गाथार्थः॥ ८५२॥ द्वारम् ॥ अधुनाऽन्तरद्वारावयवार्थ उच्यते-सकृदवाप्तमपगतं पुनः सम्यक्त्वादि कियता कालेनावाप्यते, कियदन्तरं भवतीति, तत्राक्षरात्मकाविशिष्टश्रुतस्यान्तरं जघन्यमन्तमुहर्तम् , उत्कृष्टं त्वाह
कालमणंतं च सुए अद्धापरियट्टओ उ देसूणो । आसायणबहुलाणं उक्कोसं अंतरं होई ॥ ८५३ ॥ व्याख्या-एक जीवं प्रति कालोऽनन्त एव, चशब्दस्यावधारणार्थत्वादनुस्वारस्य चालाक्षणिकत्वात् , 'श्रुते' सामान्यतोऽक्षरात्मके 'उक्कोसं अंतरं होई' त्ति योगः। तथा सम्यक्त्वादिसामायिकेषु तु जघन्यमन्तर्मुहूर्तकाल एव, उत्कृष्टं त्वाहउपार्द्धपुद्गलपरावर्त एव देशोनः, किम् ?-उत्कृष्टमन्तरं भवतीति योगः, केषाम् ?-आशातनाबहुलानाम् , उक्तंच-"तित्थगरपवयणसुयं आयरियं गणहरं महिड्डीयं । आसाइन्तो बहुसो अणंतसंसारिओ होइ ॥१॥" त्ति गाथार्थः ॥ ८५३ ॥ द्वारं ॥ साम्प्रतमविरहितद्वारार्थमाह-अथ कियन्तं कालमविरहेणैको व्यादयो वा सामायिक प्रतिपद्यन्त इत्याहसम्मसुयअगारीणं आवलियअसंखभागमेत्ता उ । असमया चरित्ते सव्वेसु जहन्न दो समया ॥ ८५४ ॥
व्याख्या-'सम्यक्त्वश्रुतागारिणां' सम्यक्त्वश्रुतदेशविरतिसामायिकानामित्यर्थः, नैरन्तर्येण प्रतिपत्तिकालः आवलिकाअसङ्ख्येयभागमात्राः समया इति, तथाऽष्टौ समयाः चारित्रे निरन्तरं प्रतिपत्तिकाल इति, 'सर्वेषु' सम्यक्त्वादिषु
+ अपार्धति प्र० 1 तीर्थकर प्रवचनं श्रुतमाचार्य गणधरं महर्धिकम् । आशातयन् बहुशोऽनन्तसांसारिको भवति ॥ ३॥
jain Educatio
n
al
For Personal & Private Use Only
MAmainelibrary.org