________________
आवश्यक
॥३६१॥
यावन्तः प्रदेशास्तावन्त एव उत्कृष्टतः सम्यक्त्वदेशविरतिसामायिकयोरेकदा प्रतिपत्तारो भवन्ति, किन्तु देशविरतिसामा
हारिभद्री
यवृत्तिः यिकप्रतिपत्तृभ्यः सम्यक्त्वप्रतिपत्तारोऽसङ्ख्येयगुणा इति, जघन्यतस्त्वेको द्वौ वेति । 'सेढीअसंखभागो सुए'त्ति इह संवर्तित
विभागः१ चतुरस्रीकृतलोकैकप्रदेशनिवृत्ता सप्तरज्वात्मिका श्रेणिः परिगृह्यते, तदसङ्ख्येयभाग इति, तस्याः खल्वसङ्ख्येयभागे यावन्तः। प्रदेशास्तावन्त एव एकदोत्कृष्टतः सामान्यश्रुते-अक्षरात्मके सम्यगमिथ्यात्वानुगते विचार्य प्रतिपत्तारो भवन्तीति हृदयं, जघन्यतस्त्वेको द्वौ वेति । 'सहस्सग्गसो विरई सहस्रायशो विरतिमधिकृत्य उत्कृष्टतः प्रतिपत्तारो ज्ञेया इत्यध्याहारः, जघन्यतस्त्वेको द्वौ वेति गाथार्थः॥ ८५०॥ प्राक्प्रतिपन्नानिदानी प्रतिपादयन्नाहसम्मत्तदेसविरया पडिवन्ना संपई असंखेज्जा । संखेजा य चरित्ते तीसुवि पडिया अणंतगुणा ॥ ८५१ ॥
व्याख्या-सम्यक्त्वदेश विरताः प्रतिपन्नाः 'साम्प्रतं' वर्तमानसमयेऽसङ्ख्येया उत्कृष्टतो जघन्यतश्च, किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः, एते च प्रतिपद्यमानकेभ्योऽसङ्ख्येयगुणा इति । अत्रैवान्तरे सामान्यश्रुतापेक्षया प्रामतिपन्नान् प्रतिपादयता 'सुयपडिवण्णा संपइ पयरस्स असंखभागमेत्ता उ' इदमेष्यगाथाशकलं व्याख्येयं, द्वितीयं
॥३६॥ तूत्तरत्र, तत्राक्षरात्मकाविशिष्टश्रुतप्रतिपन्नाः साम्प्रतं प्रतरस्य सप्तरज्ज्वात्मकस्यासङ्ख्वेयभागमात्राः, असङ्ख्येयासु श्रेणिषु यावन्तः प्रदेशास्तावन्त इत्यर्थः, सङ्ख्येयाश्च चारित्रे प्राक्प्रतिपन्ना इति, 'त्रिभ्योऽपि' चरणदेशचरणसम्यक्त्वेभ्यः पतिताः 'अणंतगुण त्ति प्राप्य प्रतिपतिता अनन्तगुणाः प्रतिपद्यमानकाप्रतिपन्नेभ्यः, तत्र चरणप्रतिपतिता अनन्ताः,
ainelibrary.org
dan Education International
For Personal & Private Use Only