________________
प्रष्टुकामेन, आद्यन्तग्रहणादन्येषु चेति गाथार्थः ॥ एष उत्सर्ग उक्तः, अपवादस्त्वाज्ञाबलाभियोगावपि दुर्विनीते प्रयोक्तव्यौ, तेन च सहोत्सर्गतः संवास एव न कल्पते, बहुस्वजननालप्रतिबद्धे त्वपरित्याज्ये अयं विधिः-प्रथममिच्छाकारेण योज्यते, अकुर्वन्नाज्ञया पुनर्बलाभियोगेनेति, आह चजह जच्चबाहलाणं आसाणं जणवएसु जायाणं । सयमेव खलिणगहणं अहवावि बलाभिओगेणं ॥ ६७८॥ पुरिसज्जाएऽवि तहा विणीयविणयंमि नत्थि अभिओगो। सेसंमि उ अभिओगोजणवयजाए जहा आसे॥६७९॥ ___ व्याख्या-यथा जात्यबाहीकानामश्वानां जनपदेषु च-मगधादिषु जातानां, चशब्दलोपोऽत्र द्रष्टव्यः, स्वयमेव खलिनग्रहणं भवति, अथवापि बलाभियोगेनेति, खलिनं-कविकमभिधीयते, एष दृष्टान्तः, अयमर्थोपनयः-पुरुषजातेऽपि तथा, जातशब्दः प्रकारवचनः, 'विणीयविणयंमि' त्ति विविधम्-अनेकधा नीतः-प्रापितः विनयो येन स तथाविधः तस्मिन् नास्त्यभियोगो जात्यबाहीकाश्ववत् , 'सेसंमि उ अभिओगो' त्ति शेषे-विनयरहिते बलाभियोगः प्रवर्तते, कथं-जनपदजाते यथाऽश्वे इति गाथाद्वयसमुदायार्थः॥ अवयवार्थस्तु कथानकादवसेयः, तच्चेदम्। बोहलविसए एगो आसकिसोरो, सो दमिजिउकामो वेयालियं अहिवासिऊण पहाए अग्घेऊण वाहियालिं नीतो, खलिणं से ढोइयं, सयमेव तेण गहियं विणीयोति । तत्तो राया सयमेवारूढो, सो हिययइच्छियं बूढो, रण्णा उयरिऊण
१०वाहणाणंति प्र०. २ बाल्हीकविषये एकोऽश्वकिशोरः, स दमयितुकामो वैकालिकमधिवास्य प्रभातेऽर्धित्वा वाह्याली नीतः, कविकं तमै ढौकितं, स्वयमेव तेन गृहीतं, विनीत इति । ततो राजा स्वयमेवारूढः, स हृदयेप्सितं व्यूढः, राज्ञोत्तीर्य
Jain Education international
For Personal & Private Use Only
S
anelibrary.org