________________
प
आवश्यक
हारिभद्री यवृत्तिः विभागः १
॥२६॥
अहवा सयं करेन्तं किंची अण्णस्स वावि दतॄणं । तस्सवि करेज इच्छं मज्झपि इमं करेहित्ति ॥ ६७४॥ व्याख्या-अथवा 'स्वकम्' आत्मीयं कुर्वन्तं 'किश्चित्' पात्रलेपनादि अन्यस्य वा दृष्ट्वा किम् ?-तस्याप्यापन्नप्रयोजनः सन् कुर्यादिच्छाकारं,कथम्?-ममापीदं-पात्रलेपनादि कुरुतेति गाथार्थः॥ इदानीमभ्यर्थितसाधुगोचरविधिप्रदर्शनायाऽऽहतत्थवि सो इच्छं से करेइ दीवेइ कारणं वाऽवि । इहरा अणुग्गहत्थं कायव्वं साहुणो किच्चं ॥६७५ ॥
व्याख्या-तत्राप्यभ्यर्थितः सन् 'इच्छाकारं करोति' इच्छाम्यहं तव करोमीति, अथ तेन गुर्वादिकार्यान्तरं कर्त्तव्यमिति तदा दीपयति कारणं वापि, 'इहरा' अन्यथा गुरुकार्यकर्त्तव्याभावे सति अनुग्रहार्थ कर्त्तव्यं साधोः कृत्यमिति गाथार्थः॥ अपिशब्दाक्षिप्तेच्छाकारविषयविशेषप्रदर्शनायैवाह___ अहवा णाणाईणं अट्ठाएँ जइ करेज्ज किच्चाणं । वेयावच्चं किंची तत्थवि तेसिं भवे इच्छा ॥ ६७६ ॥
व्याख्या-अथवा ज्ञानादीनामर्थाय, आदिग्रहणादर्शनचारित्रग्रहणं, यदि कुर्यात 'कृत्यानाम् आचार्याणां वैयावृत्त्यं 'कश्चित् साधुः, पाठान्तरं वा 'किंचित्ति किञ्चिद्विश्रामणादि, तत्रापि 'तेषां' कृत्यानां तं साधु वैयावृत्त्ये नियोजयतां भवे इच्छे' ति भवेदिच्छाकारः, इच्छाकारपुरःसरं योजनीय इति गाथार्थः ॥ किमित्यत आह-यस्मात्
आणाबलाभिओगो णिग्गंथाणं ण कप्पई काउं। इच्छा पजियव्वा सेहे राईणिए (य) तहा॥६७७॥ व्याख्या-आज्ञापनमाज्ञा-भवतेदं कार्यमेवेति, तदकुर्वतो बलात्कारापणं बलाभियोग इति, स 'निर्ग्रन्थानां साधूनां न कल्पते कर्तुमिति, किन्तु 'इच्छं'त्ति इच्छाकारः प्रयोक्तव्यः, प्रयोजने उत्पन्ने सति शैक्षक तथा रत्नाधिके चालापकादि
॥२६॥
dal Educat
i onal
For Personal & Private Use Only
IAwainelibrary.org