________________
ASSESSORIASIS
वस्त्रसीवनादि यूयं कुरुतेच्छया न बलाभियोगेनेति गाथार्थः ॥ 'जइ अब्भत्थेज परं कारणजाए'त्ति एतावन्मूलगाथाया। व्याख्यातं, साम्प्रतं 'करेजं से कोई त्ति अस्य गाथाऽवयवस्यावयवार्थ प्रतिपादयति, अत्रान्यकरणसम्भवेकारणप्रतिपादनायाह| अहवाऽवि विणासेंतं अन्भत्थेतं च अण्ण दद्णं । अण्णो कोइ भणेज्जा तं साहुं णिजरडीओ ॥ ६७२ ॥
व्याख्या-तत्र 'अहवावि विणासेंतं' ति अक्षराणां व्यवहितः सम्बन्धः, स चेत्थं द्रष्टव्यः-विनाशयन्तमपि चिकीर्षितं कार्यम्, अपिशब्दात् गुरुतरकार्यकरणसमर्थमविनाशयन्तमप्यभ्यर्थयन्तं वा अभिलषितकार्यकरणाय कञ्चन अन्यं साधुं दृष्ट्वा किमित्याह-'अन्यः' तत्प्रयोजनकरणशक्तः कश्चिद्भणेत् तं साधुं निर्जरार्थीति गाथार्थः ॥ किमित्याह___अहयं तुन्भं एयं करेमि कजं तु इच्छकारेणं । तत्थऽवि सो इच्छं से करेह मजायमलियं ॥ ६७३॥
व्याख्या-अहमित्यात्मनिर्देशे युष्माकम् 'इदं कर्तुमिष्टं कार्य करोमि 'इच्छाकारेण' युष्माकमिच्छाक्रियया, न बला दित्यर्थः, तत्रापि 'स' कारापैकः साधुः 'इच्छं से करेइ'त्ति सूचनात्सूत्रम्, इच्छाकारं करोति, नन्वसौ तेनेच्छाकारेण याचितस्ततः किमर्थमिच्छाकारं करोतीत्याह-मर्यादामूलं,साधूनामियं मर्यादा-न किञ्चिदिच्छाव्यतिरेकेण कश्चित्कारयितव्य इति गाथार्थः ॥ व्याख्यातोऽधिकृतगाथावयवः, साम्प्रतं 'तत्थवि इच्छाकारों'त्ति अस्यापिशब्दस्य विषयप्रदर्शनायाह
१. संभवे कारणं प्रतिपादयन्नाह प्र०. २ करणं कारस्तं कारयतीति कारापयति णके च कारापक इति स्यात्, त्वचशब्दमदन्तं वर्णयद्भिः पूज्यैः कचिनाम्नोऽप्यदन्तस्य ब्णिति वृद्धेरिष्टत्वात्.
Jain Educatio
n
al
For Personal & Private Use Only
R
Enelibrary.org