________________
आवश्यक
॥२५९॥
RECORRRRC
अब्भुवगमंमि नज्जइ अन्भत्थेउ ण वद्दइ परो उ । अणिमूहियबलविरिएण साहुणा ताव होयब्वं ॥ ६६९॥ II हारिभद्री___ व्याख्या-'यद्यभ्यर्थयेत् पर'मित्यस्मिन् यदिशब्दप्रदर्शिते अभ्युपगमे सति ज्ञायते, किमित्याह-अभ्यर्थयितन
यवृत्तिः वर्त्तते' न युज्यते एव परः, किमित्यत एवाह-न निगृहिते बलवीर्ये येनेति समासः, बलं-शारीरं वोर्यम्-आन्तरः शक्ति
विभागः१ विशेषः, तावच्छब्दः प्रस्तुतार्थप्रदर्शक एव, अनिगृहितबलवीर्येण तावदित्थं साधुना भवितव्यमिति । पाठान्तरं वा 'अणिगहियबलविरिएण साहुणा जेण होय'ति, अस्यायमर्थः-येन कारणेनानिगूहितबलवीर्येण साधुना भवितव्यमिति यक्तिः अतः अभ्यर्थयितुं न वर्तते पर इति गाथार्थः॥आह-इत्थं तर्हि अभ्यर्थनागोचरेच्छाकारोपन्यासोऽनर्थक इति?, उच्यते, जइ हुन्ज तस्सअणलो कजस्स वियाणतीण वा वाणं।गिलाणाइहिं वा हुज्ज वियावडो कारणेहिं सो॥ ६७० ॥
व्याख्या-यदि भवेत् 'तस्य' प्रस्तुतस्य कार्यस्य, किम्?-'अनलः' असमर्थः विजानाति न वा, वाणमिति पूरणार्थों निपातः, ग्लानादिभिर्वा भवेद्यापृतः कारणैरसौ तदा सञ्जातद्वितीयपदोऽभ्यर्थनागोचरमिच्छाकारं रत्नाधिकं विहायान्येषां करोतीति गाथार्थः॥ आह चराइणियं वजेत्ता इच्छाकारं करेइ सेसाणं । एवं मझं कर्ज तुम्भे उ करेह इच्छाए ॥ ६७१॥ |
॥२५९॥ व्याख्या-रत्नानि द्विधा-द्रव्यरत्नानि भावरत्नानि च, तत्र मरकतवजेन्द्रनीलवैडूर्यादीनि द्रव्यरत्नानि, सुखहेतुत्वमधिकृत्य तेषामनैकान्तिकत्वादनात्यन्तिकत्वाच्च, भावरत्नानि सम्यग्दर्शनज्ञानचारित्राणि, सुखनिबन्धनतामङ्गीकृत्य तेषामेकान्तिकत्वादात्यन्तिकत्वाच्च,भावरत्नैरधिको रत्नाधिकस्तं वर्जयित्वा इच्छाकारं करोति शेषाणां, कथमित्याह-इदं मम कार्य
Jain Educati
o
nal
For Personal & Private Use Only
woldainelibrary.org