________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥३४५॥
CORSESEORASIG
जह समिला पन्भट्ठा सागरसलिले अणोरपारंमि । पविसेज जुग्गछिडूं कहवि भमंती भमंतंमि ॥ ८३४॥
व्याख्या-यथा समिला प्रभ्रष्टा 'सागरसलिले' समुद्रपानीये 'अणोरपार'मिति देशीवचनं प्रचुरार्थे उपचारत आराद्भागपरभागरहित इत्यर्थः, प्रविशेत् युगच्छिद्रं कथमपि भ्रमन्ती भ्रमति युग इत्येवं दुर्लभं मानुष्यमिति गाथार्थः॥ सा चंडवायवीचीपणुल्लिया अवि लभेज युगछिर्छ । ण य माणुसाउ भट्ठो जीवो पडिमाणुसं लहइ ॥८३५॥ । व्याख्या-सा समिला चण्डवातवीचीप्रेरिता सत्यपि लभेत युगच्छिद्रं, न च मानुष्याद् भ्रष्टो जीवः प्रतिमानुषं
लभत इति गाथार्थः ॥ इदानीं परमाणू , जहा एगो खंभो महापमाणो, सो देवेणं चुण्णेऊणं अविभागिमाणि खंडाणि द्र काऊण णालियाए पक्खितो, पच्छा मंदरचूलियाए ठितेण फुमितो, ताणि णहाणि, अस्थि पुण कोवि?, तेहिं चैव पोग्ग
लेहिं तमेव खंभं णिव त्तेज, णो त्ति, एस अभावो, एवं भट्ठो माणुसातो ण पुणो। अहवा सभा अणेगखंभसतसहस्ससंनिविट्ठा, सा कालंतरेण झामिता पडिता, अत्थि पुण कोइ ?, तेहिं चेव पोग्गलेहि करेजा, णोत्ति, एवं माणुस्सं दुल्लहं। इय दुल्लहलंभं माणुसत्तणं पाविऊण जो जीवो। ण कुणइ पारत्तहियं सो सोयइ संकमणकाले ॥ ८३६ ॥ ___ व्याख्या-'इय' एवं दुर्लभलाभं मानुषत्वं प्राप्य यो जीवो न करोति परत्र हित-धर्म, दीर्घत्वमलाक्षणिकं, स शोचति | 'सङ्क्रमणकाले' मरणकाल इति गाथार्थः ॥
इदानीं परमाणु:-यथैकः स्तम्भो महाप्रमाणः, स चूर्णयित्वा देवेनाविभागानि खण्डानि कृत्वा नालिकायां प्रक्षिप्तः, पश्चान्मन्दरचूलायां स्थितेन फूत्कृतः, तानि नष्टानि, अस्ति पुनः कोऽपि?, तैरेव पुद्गलैस्तमेव स्तम्भ निर्वर्तयेत् , नेति, एषोऽभावः, एवं भ्रष्टो मानुष्यान्न पुनः । अथवा सभा अनेकस्तम्भशतसहस्रसन्निविष्टा, सा कालान्तरेण दग्धा पतिता, अस्ति पुनः कोऽपि ?, तैरेव पुद्गलैः कुर्यात् , नेति, एवं मानुष्यं दुर्लभम् ।
॥३४५॥
jainelibrary.org
dalin Educati
o
For Personal & Private Use Only
nal