________________
आवश्यक॥ ३४० ॥
कालो गृहीतः, निःश्रवणस्य तु निर्जरारूपत्वान्निष्ठाकाल इति, अथवा तत्र संवेष्टनवक्तव्यताऽर्थतोऽभिहिताः, इह तु साक्षादिति गाथार्थः ॥ ८२८ ॥ द्वारम् || अधुनाऽलङ्कारशयनासनस्थानचङ्क्रमणद्वारकदम्बकव्याचिख्यासयाऽऽहउम्मुक्कमणुम्मुक्के उम्मुचंते य केसलंकारे । पडिवज्जेज्जन्नयरं सयणाईसुंपि एमेव ॥ ८२९ ॥
व्याख्या- 'उन्मुक्ते' परित्यक्ते 'अनुन्मुक्ते' अपरित्यक्ते अनुस्वारोऽलाक्षणिकः, उन्मुश्चंश्च केशालङ्कारान्, केशग्रहणं कटककेयूराद्युपलक्षणं, प्रतिपद्येत अन्यतरच्चतुर्णां 'सयणादीसुंपि एमेव' ति शयनादिष्वपि द्वारेषु तिसृष्वप्यवस्था स्वेव - मेव योजना कार्या, उन्मुक्तशयनोऽनुन्मुक्तशयनः तथोन्मुञ्चन् चतुर्णामन्यतरत् प्रतिपद्यते प्राक्प्रतिपन्नश्च भवति, एवं शेषयोजना कार्या, इति गाथार्थः ॥ ८२९ ॥ उपोद्घातनिर्युक्तौ द्वितीयद्वारगाथायां वेति द्वारं गतम्, अधुना केष्विति द्वारं व्याचिख्यासुराह
सव्वगयं सम्मत्तं सुए चरिते ण पज्जवा सव्वे । देसविरई पडुच्चा दोन्हवि पडिसेहणं कुज्जा ॥ ८३० ॥
व्याख्या - अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमिति ?, तत्र सर्वगतं सम्यक्त्वं, सर्वद्रव्यपर्यायरुचिलक्षणत्वात् तस्य, तथा 'श्रुते' श्रुतसामायिके ' चारित्रे' चारित्रसामायिके न पर्यायाः सर्वे विषयाः, श्रुतस्याभिलाप्यविषयत्वाद्, द्रव्यस्य चाभिलाप्यानभिलाप्यपर्याययुक्तत्वात्, चारित्रस्यापि 'पढमंमि सङ्घजीवा' इत्यादिना सर्वद्रव्यासर्वपर्यायविषयतायाः प्रतिपादितत्वात्, देशविरतिं प्रतीत्य द्वयोरपि सकलद्रव्यपर्याययोः प्रतिषेधनं कुर्यात्, न सर्वद्रव्यविषयं नापि सर्वपर्यायविषयं देश विरति सामायिकमिति भावना । आह-अयं सामायिकविषयः किंद्वारे प्ररूपित एवेति किं पुनरभिधानम् ?,
Jain Education International
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
||३४०॥
Gainelibrary.org