________________
आवश्यक
हारिभद्रीयवृत्तिः विभागः१
॥३३९॥
| 'असमोहतोऽवि एमेव' त्ति असमवहतोऽप्येवमेव प्रतिपद्यते स चतुर्णामन्यतरत्, प्राक्प्रतिपन्नश्च भवति, समवहतस्तु केवलिसमुद्घातादिना सप्तविधेन प्रतिपद्यते, किन्तु 'पुवपडिवण्णए भयण' त्ति पूर्वप्रतिपन्नके समवहते विचारयितुमारब्धे भजना सेवना समर्थना कार्या, पूर्वप्रतिपन्नो भवतीत्यर्थः, सप्तविधत्वं पुनः समुद्घातस्य, यथोक्तम्-'केवलि कसायमरणे वेदण वेउवि तेय आहारे । सत्तविह समुग्घातो पन्नत्तो वीयरागेहिं ॥१॥ इह च पूर्वप्रतिपन्नके भजना, समवहतो हि सामायिकद्वयस्य त्रयस्य वा पूर्वप्रतिपन्नको भावनीय इतिगाथार्थः ॥ ८२४ ॥ गतं द्वारद्वयं, निर्वेष्टनद्वारप्रतिपादनायाह
व्वेण य भावेण य निविडंतो चउण्हमण्णयरं । नरएसु अणुव्वढे दुगं चउक्कं सिया उ उव्वट्टे ॥ ८२५॥ ___ व्याख्या-द्रव्यतो भावतश्च निर्वेष्टयन् चतुर्णामन्यतरत् प्रतिपद्यते प्राक्प्रतिपन्नश्चास्ति, द्रव्यनिर्वेष्टनं कर्मप्रदेशविसङ्घातरूपं भावनिर्वेष्टनं क्रोधादिहानिलक्षणं, तत्र सर्वमपि कर्म निर्वेष्टयंश्चतुष्टयं लभते, विशेषतस्तदावरणं ज्ञानावरणं निर्वेष्टयन् श्रुतसामायिकमामोति मोहनीयं तु शेषत्रयमिति, संवेष्टयंस्त्वनन्तानुबन्ध्यादीन् न प्रतिपद्यते, शेषकर्म त्वङ्गीकृत्योभयथाऽप्यस्ति । द्वारम् । उद्वर्तनाद्वारमधुना-नरकेषु-अधिकरणभूतेष्वनुद्वर्तयन् , तत्रस्थ एवेत्यर्थः, नरकादेति | पाठान्तरं, 'दुर्ग' ति आद्यं सामायिकद्विकं प्रतिपद्यते, तदेव चाधिकृत्य पूर्वप्रतिपन्नो भवति, उद्धृत्तस्तु 'स्यात्' कदाचित् चतुष्कं प्रतिप्रद्यते कदाचित् त्रिकं, पूर्वप्रतिपन्नोऽप्यस्त्येवेति गाथार्थः ।। ८२५ ॥ तिरिएसु अणुव्वट्टे तिगं चउकं सिया उ उव्वट्टे । मणुएसु अणुव्बट्टे चउरो ति दुगं तु उव्वट्टे ॥ ८२६॥ १ केवली कषायो मरणं वेदना वैक्रियं तैजस आहारकः । सप्तविधः समुद्घातः प्रज्ञप्तो वीतरागैः ॥ १॥
॥३३९॥
Jain Educationalemonal
For Personal & Private Use Only
V
inelibrary.org