________________
तेउलेसा पम्हलेस पप्प, पम्हलेसा सुक्कलेसं पप्प, एवं सुक्कलेसा पम्हलेसं पप्प' भावार्थस्तु पूर्ववत्, 'एवं किण्हेलसा नीललेसं पप्प, किण्हलेसा काउलेसं पप्प, किण्हलेसा तेउलेसं पप्प, एवं जाव सुक्कलेसं पप्प, एवमेगेगा सबाहिं चारिज्जति', ततश्च सम्यक्त्वश्रुतं सर्वास्ववस्थित कृष्णादिद्रव्यलेश्यासु लभते नारकादिरपि, शुद्धासु तेजोलेश्याद्यासु तत्तद्रव्यसाचिव्यसञ्जातात्मपरिणामलक्षणासु तिसृषु च चारित्रं, शेषं पूर्ववदिति गाथार्थः ॥ ८२२ ॥ द्वारं ॥ साम्प्रतं परिणामद्वारावयवार्थ प्रतिदर्शयन्नाह -
बहुते परिणामे पडिवज्जइ सो चउण्हमण्णयरं । एमेवऽवट्ठियंमिवि हायंति न किंचि पडिवज्जे ॥ ८२३ ॥ व्याख्या – परिणामः - अध्यवसायविशेषः, तत्र शुभशुभतररूपतया वर्द्धमाने परिणामे प्रतिपद्यते स 'चतुर्णां' सम्यक्त्वादिसामायिकानामन्यतरत्, 'एमेवऽवट्ठियंमिवि' त्ति एवमेवावस्थितेऽपि शुभे परिणामे प्रतिपद्यते स चतुर्णामन्यतरदिति, 'हायंति ण किंचि पडिवजे' त्ति क्षीयमाणे शुभे परिणामे न किञ्चित् सामायिकं प्रतिपद्यते, प्राक्प्रतिपन्नस्तु त्रिष्वपि परिणामेषु भवतीति गाथार्थः ॥ ८२३ ॥ द्वारम् ॥ अधुना वेदनासमुद्घातकर्मद्वारद्वयव्याचिख्यासयाऽऽहदुविहाऍ वेयणाए पडिवज्जइ सो चउण्हमण्णयरं । असमोहओऽवि एमेव पुव्व पडिवण्णए भयणा ॥ ८२४ ॥ व्याख्या - द्विविधायां वेदनायां - सातासातरूपायां सत्यां प्रतिपद्यते स चतुर्णामन्यतरत्, प्राक्प्रतिपन्नश्च भवति,
१ तेजोलेश्या पद्मलेश्यां प्राप्य, पद्मलेश्या शुकुलेश्यां प्राप्य एवं शुक्ललेश्या पद्मलेश्यां प्राप्य एवं कृष्णलेश्या नीललेश्यां प्राप्य कृष्णलेश्या कापोतलेश्यां प्राप्य कृष्णलेश्या तेजोलेश्यां प्राप्य, एवं यावत् शुक्कलेश्यां प्राप्य, एवमेकैका सर्वाभिश्चार्यते.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org