________________
सर्वासु
, लभत अण्णातरीए,
सम्मत्तसुयाण पुवपडिवण्णगा होजाणो पडिवजमाणगा, अजहण्णुक्कोसोगाहणगा पुण चउण्हवि दुधावि संति, उक्कोसोगाहणगा पुण दुहं दुधावी' त्यादि, अलं प्रसङ्गेन ॥ गतं द्वारत्रयम् , अधुना लेश्याद्वारावयवार्थमभिधित्सुराहसम्मत्तसुयं सव्वासु लहइ सुद्धासु तीसु य चरितं । पुव्वपडिवण्णगो पुण अण्णयरीए उ लेसाए ॥८२२॥
व्याख्या-सम्यक्त्वं च श्रुतं चेति एकवद्भावस्तत् सम्यक्त्वश्रुतं 'सर्वासु' कृष्णादिलेश्यासु 'लभते' प्रतिपद्यते, 'शुद्धासु' तेजोलेश्याद्यासु तिसृष्वेव, चशब्दस्यावधारणार्थत्वात् , 'चारित्रं' विरतिलक्षणं, लभत इति वर्तते, एवं प्रतिप-| द्यमानकमधिकृत्य लेश्याद्वारं निरूपितम् , अधुना प्राक्प्रतिपन्नमधिकृत्याऽऽह-'पुवपडिवण्णओ पुण अण्णतरीए उ लेसाए' पूर्वप्रतिपन्नकः पुनरन्यतरस्यां तु लेश्यायां-कृष्णाद्यभिधानायां भवति । आह-मतिश्रुतज्ञानलाभचिन्तायां शुद्धासु तिसृषु । प्रतिपद्यमानक उक्तः कथमिदानीं सर्वास्वभिधीयमानः सम्यक्त्वश्रुतप्रतिपत्ता न विरुध्यत इति ?, उच्यते, तत्र कृष्णादिद्रव्यसाचिव्यजनिताऽऽत्मपरिणामरूपां भावलेश्यामाश्रित्यासावुक्तः, इह त्ववस्थितकृष्णादिद्रव्यरूपां द्रव्यलेश्यामेव इत्यतो न विरोधः, उक्तं च-"से णूणं भंते ! किण्हलेसा णीललेस्सं पप्पणो तारूवत्ताए णो तावण्णत्ताए णो तागंधत्ताए णो तारसत्ताए णो ताफासत्ताए भुजो भुजो परिणमति ?, हंता गोतमा ! किण्णलेस्सा णीललेस्सं पप्प णो तारूवत्ताए जाव परिणमति, से केणणं भंते ! एवं वुच्चति-किण्हलेस्सा णीललेस्सं पप्प जाव णो परिणमइ, गोतमा!
सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्ना भवेयुर्न प्रतिपद्यमानाः, अजघन्योत्कृष्टावगाहनाः पुनश्चतुर्णामपि द्विधाऽपि सन्ति, उत्कृष्टावगाहनाः पुनर्द्वयोर्द्विधाऽपि। | २ अथ नूनं भवन्त ! कृष्णलेश्या नीललेइयां प्राप्य न तद्रूपतया नो तद्वर्णतया न तद्न्धतया न तद्रसतया न तत्स्पर्शतया भूयो भूयः परिणमतिः, हन्त गौतम!| कृष्णलेश्या नीललेश्यां प्राप्य न तद्रूपतया यावत्परिणमति, अथ केनार्थेन भदन्त ! एवं प्रोच्यते-कृष्णलेश्या नीललेश्यां प्राप्य यावन्न परिणमति ?, गौतम !
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org